SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते भावो येषां त एवम् । किं कियन्त एव तथाविधाः सर्वेपीत्याह-सर्वेपि संसारिणो मुक्ताश्च । तथाऽशुद्ध निश्चयोस्ति । कथम् ? इति । किमिति ? भ. वति । कोसौ ? आत्मा । के ? रागाद्या एव । रागद्वेषादिपरिणामात्मक इत्यर्थः। व्यवहारस्य सद्भूतासद्भूतभेदयोरुद्देशपूर्व लक्षणमाहसद्भूतेतरभेदाध्यवहारः स्याद् द्विधा भिदुपचारः। गुणगुणिनोरभिदायामपि सद्भूतो विपर्ययादितरः॥१०४॥ स्यात् । कोसौ ? व्यवहारः। कतिधा ? द्विधा । कस्मात् ? सद्भुतेतरभेदात् । सद्भूतोऽसद्भूतश्चेत्यर्थः । तत्र सद्भूतः स्यात् । किंरूपः ? भिदुपचारो भेदकल्पना । कस्यां सत्यान् ? अभिदायामपि अभेदेपि । कयोः ? गुणगुणिनोः। तथा सात् । कोसौ ? इतरोऽसद्भूतः । कस्मात् ? विपर्ययाद् भेदेप्यभेदोपचारात् । सद्भूतव्यवहारस्य शुद्धाशुद्धभेदोद्देशपूर्व शुद्धस्योल्लेखं संज्ञान्तरं चाह सद्भूतः शुद्धतरभेदाद् द्वेधा तु चेतनस्य गुणाः। केवलबोधादय इति शुद्धोऽनुपचरितसंज्ञोसौ ॥१०५॥ सद्भूतस्तु व्यवहारः स्यात् । कतिधा ? द्वेधा । कस्मात् ? शुद्धतरभेदात् । शुद्धोऽशुद्धश्चेत्यर्थः । तत्र शुद्धः स्यात् । कथम् ? इति एवम् । भवन्ति । के ? गुणाः। कस्य ? चेतनस्य जीवस्य । किंविशिष्टाः ? केवलबोधादयोऽसहायज्ञानदर्शनादयः । असौ शुद्धसद्भूतव्यवहारः स्यात् । किमाख्यः ? अनुपचरितसंज्ञः। अनुपचरिता संज्ञा यस्य । पूर्वार्द्धन व्यवहारस्याशुद्धसद्भूतभेदोल्लेखसंज्ञमुत्तरार्धेन चानुपचरितासद्भूतभेदोल्लेखमावेदयति मत्यादिविभावगुणाश्चित इत्युपचरितकः स चाशुद्धः । देहो मदीय इत्यनुपचरितसंज्ञस्त्वसद्भूतः ॥ १०६॥ - स च स पुनः सद्भूतव्यवहारोऽशुद्धः स्यात् । किमाख्यः ? उपचरि. तक उपचरितसंज्ञः । किमुल्लेखः ? मत्यादिविभावगुणाश्चित इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy