SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते सुखोपायशतेन सुखोपायानामभ्यासाभिमानसंप्रत्ययविषयलक्षणानां शमैकारणानां समुदायेन । न चेदस्ति । किं तत् ? पुण्यम् । किंविशिष्टम् ? संमुखीनम् उदेतुम् अनुद्यतमित्यर्थः । तदा किं कार्यम् । केन ? सुखोपायशतेन बहुभिरपि सुखोपायैस्तादृक्पुण्यस्य फलयितुमशक्यत्वात् । पुण्यपापयोर्बलाबलं चिन्तयति शीतोष्णवत्परस्परविरुद्धयोरिह हि सुकृतदुष्कृतयोः। सुखदुःखफलोद्भवयोर्दुर्बलमभिभूयते बलिना ॥ ६१ ॥ हि यस्मादभिभूयते स्वफलदानासमर्थ क्रियते । किं तत् ? दुर्बलं सुकृतं दुष्कृतं वा । केन ? बलिना दुष्कृतेन सुकृतेन वा । कयोर्मध्ये ? सुकृतदुष्कृतयोः पुण्यपापयोः। किंविशिष्टयोः ? सुखदुःखफलोद्भवयोः सुखदुःखफलौ उद्भवौ उदयौ ययोः । पुनः किंविशिष्टयोः ? परस्परविरुद्धयोरन्योन्यशक्तिप्रतिघातिनोः। किंवत् ? शीतोष्णवत् शीतोष्णस्पर्शयोर्यथा। क्रियमाणोपि धर्मः पापपाकमपकर्षतीत्युपदिशति धर्मोनुष्टीयमानोपि शुभभावप्रकर्षतः । भकत्वा पापरसोत्कर्ष नरमुच्छासयत्यरम् ॥ ६२ ॥ उच्छ्वासयत्यरं शीघ्रं किंचिदापदो मोचयति । कोसौ ? धर्मः । किं. क्रियमाणः ? अनुष्टीयमानस्तत्क्षणे आचर्यमाणः । न परमनुष्ठित इत्यपिशब्दार्थः । कम् ? नरं पुरुषम् । किं कृत्वा ? भक्त्वा निहत्त्य । कम् ? पापरसोत्कर्षम् । पापस्य रसः स्वफलदानशक्तिः । तस्योत्कर्ष औत्कव्यम् । केन ? शुभभावप्रकर्षतः शुभपरिणामोत्कर्षेण । प्रकृतार्थमुपसंहरन् धर्माराधनायां प्रोत्साहयतितत्सेव्यतामभ्युदयानुषङ्गफलोऽखिलक्लेशविनाशनिष्ठः । अनन्तशर्मामृतदः सदायैर्विचार्य सारो नृभवस्य धर्मः ६३ यत उक्तनित्याचिन्त्यप्रभावस्तत् तस्मात्सेव्यतामाराध्यताम् । कोसौ ? Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy