SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२६ अनगारधर्मामृते ग्रामस्य व्यक्तिराविर्भावस्तद्व्यक्तिः । तयोबुराण्युद्भटानि तद्व्यक्त्युद्धुराणि । तानि च तानि नूतनोक्तिमधुराणि च प्रत्यग्रवचनस्वादूनि । तानि च तानि स्तोत्राणि स्तवनानि च तद्व्यक्त्युद्धुरनूतनोक्तिमधुरस्तोत्राणि । तैः स्फुट: प्रकट उद्गारो लक्षणया उल्लासो यस्याः सा तद्व्यक्त्युद्धुरनूतनोक्तिमधुरस्तोत्रस्फुटोद्द्वारा । तथाविधा गीर्वाक् यस्य स एवम् । किं कुर्वन् ? दधद् धारयन् । काम् ? मूर्ति शरीरयष्टिम् । कीदृशीमिव ? प्रश्रयनिर्मितामिव विनयमयीं यथा । यतो येन प्राप्नोति कृती । काम् ? रेखां लेखाम् । क्क ? धुरि अग्रे । केषाम् ? अरिजयिनां मोहस्य जेतृणाम् । I 1 परममङ्गलत्वमुपपाद्य तज्जपनस्योत्कृष्टस्वाध्यायरूपतां पञ्चनमस्कारस्य निरूपयति मलमखिलमुपास्त्या गालयत्यङ्गिनां य, - च्छिवफलमपि मङ्गं लाति यत्तत्परार्ध्यम् । परमपुरुषमत्रो मङ्गलं मङ्गलानां, श्रुतपठनतपस्यानुत्तरा तज्जपः स्यात् ॥ ९१ ॥ यद् यस्मात्कारणात् परमपुरुषमन्त्रः पञ्चत्रिंशदक्षरोऽपराजितमन्त्रो गालयति नाशयति । किं तत् ? मलं पापम् । किं विशिष्टम् ? अखिलं समस्तमुपात्तमागामि च । कया ? उपास्त्या वाङ्मनसजपकरणलक्षणाराधनेन । केषाम् ? अङ्गिनां प्राणिनाम् । यदपि यच्च लाति आदत्ते स्वीकरोति ददाति वा वितरति । किं तत् ? मङ्गं पुण्यम् । कीदृशम् ? शिवफलमभ्युदय निःश्रेयसप्रयोजनम् । उक्तं च मलं पापमिति प्रोक्तमुपचारसमाश्रयात् । तद्धि गालयतीत्युक्तं मङ्गलं पण्डितैर्जनैः ॥ तथा, मङ्गशब्दोयमुद्दिष्टः पुण्यार्थस्याभिधायकः । तल्लातीत्युच्यते सद्भिर्मङ्गलं मङ्गलार्थिभिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy