SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः। ५०५ ज्यावितरणम् । कस्मात् ? पर्यायवर्जनात् । अपरमितापराधत्वेन सर्व पर्यायमपहाप्येत्यर्थः । केषु ? पार्श्वस्थसंसक्तस्वच्छन्देषु। न केवलम्, अवसन्नके। न केवलं, कुशीले च । संक्षेपतस्तल्लक्षणानि यथा वृत्तेऽलसोऽवसन्नः पार्श्वस्थो मलिनी परदृशेष्टेनिष्टे । संसक्तो मृगचरितः स्वकल्पिते प्रकटकुचरितस्तु कुशीलः॥ विस्तरतो यथापार्श्वस्थो यो वसतिषु प्रतिबद्ध उपकरणोपजीवी वा श्रमणानां पार्थे तिष्ठति । उक्तं च वसंदीसु अ पडिबद्धो अहवा उवकरणकारओ भणिओ। पासत्थो समणाणं पासत्थो णाम सो होई ॥ संसक्तो यो वैद्यकमन्त्रज्योतिषोपजीवी राजादिसेवकश्च स्यात् । उक्तं च वेजेणे व मंतेण व जोइसकुसलत्तणेण पडिबद्धो । रायादी सेवंतो संसत्तो णाम सो होइ॥ स्वच्छन्दो यस्त्यक्तगुरुकुल एकाकित्वेन स्वच्छन्दविहारी जिनवचनदूषको मृगचारित्र इति यावत् । उक्तं च औयरियकुलं मुच्चा विहरदि एगागिणो य जो समणो । .. जिणवयणं जिंदतो सच्छन्दो हवइ मिगचारी ॥ अवसन्नो यो जिनवचनानभिज्ञो मुक्तचारित्रभारो ज्ञानाचरणभ्रष्टः करणालसश्च स्यात् । उक्तं च १-वसतिषु च प्रतिबद्ध; अथवोपकरणकारको भणितः । पार्श्वस्थेः श्रमणानां पार्थस्थो नाम स भवति ॥ २-वैद्यकेन वा मन्त्रेण वा ज्योतिषकुशलत्वेन प्रतिबद्धः । राजादि सेवमानः संसक्तो नाम स भवति ॥ ३-आचार्यकुलं मुक्त्वा विहरति एकाकी च यः श्रमणः । जिनवचनं निन्दन् स्वच्छन्दो भवति मृगचारी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy