SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। १९९ INNNNN अंडेसु पवटुंता गभट्ठा माणुसा य मुच्छगया। जारिसया तारिसया जीवा एगिदिया णेया ॥ ते च पञ्चतयेपि सूक्ष्माः सर्वत्र सन्ति । स्थूलास्त्विमे मृत्तिका बालिका चैव शर्करा चोपल: शिला । लवणायस्तथा तानं त्रपु सीसकमेव च ॥ रूप्यं सुवर्ण वज्रं च हरितालं च हिङ्गुलम् । मनःशिला तथा तुत्थमञ्जनं च प्रवालकम् ॥ झीरोलकाभ्रकं चैव मणिभेदाश्च बादराः। गोमेदो रुजकोऽङ्कश्च स्फटिको लोहितप्रभः॥ वैडूर्य चन्द्रकान्तश्च जलकान्तो रविप्रभः। गैरिकश्चन्दनश्चैव बर्वरो वक एव च ॥ मोचो मसारगल्वश्च सर्व एते प्रदर्शिताः। संरक्ष्याः पृथिवीजीवा यतिभिर्मानपूर्वकम् ॥ एते षदत्रिंशत् । अत्र बालिका रूक्षाङ्गाराद्युद्भवा वालुका । शर्करा परुषरूपा व्यस्त्रचतुरस्रादिरूपा । उपलो वृत्तपाषाणः । शिला बृहत्पाषाणः । अपू रङ्गम् । अञ्जनं सौवीराञ्जनम् । झीरोलकाभ्रवालुका चिक्यचिक्यरूपा । गोमेदः कर्केतनमणिर्गोरोचनावर्णः । रुजको राजावर्तमणिरतसीपुष्पवर्णः । अङ्कः पुलिकमणिः प्रवालवर्णः। लोहितप्रभः पद्मरागः । वैद्दयं मयूरकण्ठवणम् । जलकान्त उदकवर्णः। रविप्रभः सूर्यकान्तः । गैरिको रुधिराख्यमणि. गरिकवर्णः । चन्दनः श्रीखण्डसमगन्धवर्णो मणिः । वर्वरो मरकतमणिः वकः पुष्परागमणिर्वकवर्णः। मोचो नीलमणिः कदलीपत्रवर्णः । मसारगल्वः मसूणपाषाणमणिविद्रुमवर्णः । शर्करोपलशिलावज्रप्रवालवर्जिताः शुद्धपृथिवीविकाराः । शेषाः खरपृथ्वीविकाराः । एतेष्वेव च पृथिव्यष्टकं मेर्वादिशैला द्वीपा विमानानि भवनानि वेदिकाप्रतिमातोरणस्तूपचैत्यवृक्षजम्बूशाल्मलिधातक्यो रत्नाकरादयश्चान्तर्भवन्ति । अवश्यायो हिमं चैव मिहिका विन्दुशीकराः। शुद्धं घनोदकं चाम्बुजीवा रक्ष्यास्तथैव ते ॥ अवश्यायो रात्रिपश्चिमाहरे निरभ्राकाशात्पतितं सूक्ष्मोदकम् । मिहिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy