SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ क्रान्तकवि महाप्रज्ञः /५ उत्पादको-कविर्महाप्रज्ञः-य:कविःकस्यापि भावग्रहणंविना स्वतंत्ररूपेण काव्यमुद्भावयति सोत्पादको कविरिति । महाप्रज्ञो एतादृशगुणसम्पन्नोऽस्ति। प्रायोजनिकोमहाप्रज्ञः - काव्यकलोपासनादृष्टया असूर्यपश्यनिषण्णदत्तावसर - प्रायोजनिकाश्च चत्वारो कवयः। विशिष्टलक्ष्य सिद्धयर्थमथवा निजप्रयोजनप्राप्त्यर्थं यः कविः काव्यरिवरचनां करोति स प्रायोजनिकः। महाकविः महाप्रज्ञः भव्यजीवेभ्यरथवा साधनासमरपराजितक्लीवेभ्यः नैकमेघकुमारसदृशजनेभ्यः धाष्टर्यजननार्थं साधनामार्गेप्रतिष्ठापनार्थं च अथवा निर्वाणपथं किंवा आत्मप्रदेशगमनाध्वानं प्रकाशनाय जैनगीतेति लोकेप्रसिद्ध - संबोधीत्याख्यमहाकाव्यं विधायि। संबुज्झह किं न बुज्झह' संबोही खलु पेच्च दुल्लहेति ध्वनि सम्पूर्णमहाकाव्येध्वनति।संबोधिपथैवमतिर्करणीयाऽस्माभिरिति। प्रतिबोधयति भगवान् मेघकुमारं - युक्तं नैतत्तवायुष्मन्! तत्त्वं वेत्सि हिताहितम्। पूर्व-जन्म-स्थितिं स्मृत्वा, निश्चलं कुरु मानसम्॥” प्रभुमहावीरं प्रति निजश्रद्धासमर्पणार्थमथवा निज मुक्तिपथ प्रबोधनार्थमेव अश्रुवीणां चकार कविः। काव्ये आत्माभिव्यंजनायाः प्राधान्यमस्ति अतः कवि चन्दनबालायाः कथानक माश्रित्य निजस्वरूपमेवोद्घाटयति। आशुकविः महाप्रज्ञः - तत्क्षणप्रदत्तविषयेषु त्वरितवेगेन कविकर्म करण समर्थो - आशुकविरिति । महाकवि:महाप्रज्ञः आशुकवित्व गुण सम्पन्नोऽस्ति। विभिन्नावसरेषु विद्वत्सभाषु च प्रदत्तविषयेषु स महाकविः रमणीय-श्रुतिमधुर शब्दसमन्वितं काव्यंचकार। पुणानगरस्य एस.पी. महाविद्यालयस्य संस्कृतविभागाध्यक्षेण प्रदत्तविषये 'विद्वत्सभा' इत्यस्योपरि महाकविः महाप्रज्ञः आशुकवित्वं कृतवान् :अध्यक्ष उवाच – मिलिताः पण्डिताः सर्वे काव्यस्य श्रवणेच्छया अतो हि काव्यमाश्रित्य वर्ण्यतां विदुषां सभा ।। विषयपूर्ति – स्वातन्त्र्यं यज्जन्मसिद्धोऽधिकारः येषां नादः सर्वथा श्रुयगामः शेषां नाम्ना मंदिरं विद्यमानं विद्वद्वर्या अत्र सर्वे प्रभूताः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003074
Book TitleAshruvina
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1999
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari & Sermon
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy