SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ५१ अविरलवलयाकृतीकृतोऽसौ सपदि च पञ्चधनुःशतोन्मितोचः । समुचितविपुलत्वसंयुतोऽभाद्रविपरिवेष इवाभिरत्नवेदिम् ॥२१॥ ५०० ५०० तस्मिन्नवसरे सपदि शीघ्रं अभिरत्नवेदिं मणिपीठिकायाः समन्तात् ३ अविरलो दृढो वलयः प्राकारवलयः स आकृतिराकारो यस्य सोऽवि - रलवलयाऽऽकृतिः नाऽसौ असौ सम्पद्यते तथाकृतोऽविरलवलयाssकृतीकृतः प्राकाराऽऽकारेण निष्पादित इत्यर्थः । च पुनः पञ्च सङ्ख्यानि ६ धनुषां शतानि उन्मितमुन्मानं यस्य स पञ्चधनुः शतोन्मितः स चासौ उच्चश्चेति तथोक्तः, पञ्चशतधनुः प्रमाणप्रांशुरित्यर्थः । पुनः समुचितं स्वयोग्यं यद्विपुलत्वं भित्तिविस्तारस्तेन संयुतो युक्तः, एवंविधोऽसौ ९ मणिमयपरिणमितपुद्गलसमूहो रवेः सूर्यस्य परिवेष इव मण्डलमिव अभाद्भाति स्म । वलयाकृतीत्यत्र च्चिप्रत्ययः । समुचितेत्यादि । इह समुचितपदोपादानात्साधिकेत्रयस्त्रिंशद्धनूंषि सूचितानि । ' अहंगुलि - १२ क्करयणीतित्तीसंघणुह बाहल्ले' मिति वचनात् । परिवेष इति । 'मण्डलं तूपसूर्यकम् । परिधिः परिवेषश्च' इति हैमः ॥ २१ ॥ तदुपरि कपिशीर्षमालिका द्राक् पविमणिभिर्विदधे तथैव चैभिः । अखिलमिदमकारि यत्क्षणेन ૪ 33 ध्रुवसतयस्तदहो महानुभावाः ॥ २२ ॥ चः समुच्चये, एभिर्वैमानिकदेवैर्यथा सद्यो मणिमयप्राकारो निर्मितस्तथैव तेनैव प्रकारेण तस्य प्राकारस्योपरि द्राक् शीघ्रं पविमणिभिः हीरकरत्नैः कपिशीर्षाणां मालिका श्रेणिर्विदधे रचिता । अत्र कविः २१ १ त्रयस्त्रिंशद् (३३) धनुर्द्वात्रिंशदङ्गुलपृथुलत्वम् । २ श्रीयशोभद्रमुनीन्द्रप्रणीत - श्रीसमवसरण स्तवे - गाथा (?) अत्र २ - ३९ टीकायाम् । Jain Education International For Private & Personal Use Only '' १५ - www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy