SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकार इहास्मिन् ऋतौ सुखादुरूपैः सुखादुभिः सुरूपैश्च बदरैर्निजफलैलुलन्त्यो नम्रीभवन्त्यो बदर्यः कुवलीवृक्षा यतो यस्मात्कारणाद्भुवं ३ पृथ्वीमाससञ्जरालिलिङ्गः, तत्तस्माद्धेतोः आश्रितानाम्-एनां भुवमाश्रित्य स्थितानाम् , योगिनां योगवतां नराणां, च पुनर्विलासिपुंसां भोगिमनुष्या णामपि रहोभूमिरेकान्तस्थानमासीद्बभूव । रहोभूमिकाशिणो हि योगिनो ६ वा भोगिनो वा भवन्तीत्यतस्तेषामेव ग्रहणम् । सुस्वादुरूपैरिति । खादु मधुरो रसः, रूपं वर्ण आकृतिर्वा, खादु च रूपं च खादुरूपे शोभने स्वादुरूपे येषां तानि तैः । बदरैरिति । बदर्याः फलानि ९ बदराणि तैः, अनुदाचादित्वादञ् ‘फले लुक्' (४।३।१६३) इति लुक्, 'लुक्तद्धित-' (१।२।४९) इति ङीपो लुक् । आससञ्जरिति । 'पञ्ज सङ्गे आपूर्वादस्माकर्तरि लिट् । योगिनामिति । १२ 'योगश्चित्तवृत्तिनिरोधः', सोऽस्त्येषामिति मत्वर्थे इनिः । विलासीत्यादि । विलासिनश्च ते पुमांसश्च तेषाम् । रह इत्यादि । रहश्चासौ भूमिश्चेति विग्रहः । रह इति सान्तमव्ययमनव्ययं च । 'रहो गुह्ये १५रते तत्त्वे' इति हैमः । गुह्ये एकान्ते इत्यर्थः ॥ ३६ ॥ ___इति शिशिरवर्णनम् ॥ ६॥ अथ लेशतः सर्वत॒साधारणवर्णनमाह१८ दलान्यपीष्ये खलु दुर्लभानि येषामगानां सुमनःफलैस्ते । स्व विवात्यन्तविलोकनीया २१ भूता अहो भागवतोऽनुभावः ॥ ३७॥ येषामगानां वृक्षाणां इष्ये वसन्ते दलानि पत्राण्यपि दुर्लभानि २३ अभूवन्निति शेषपुष्पफलादिकं तु दूरे तिष्ठतु दलान्यपि नासन्निति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy