SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २२ श्रीगौतमीयकाव्यं गुरुर्महान् योऽसौ भारस्तेन नम्रा नमनशीला आम्राः सहकारतरवो लोलाश्चञ्चला अत एव लुलन्त्यो नम्रीभवन्त्यो या लताः शाखास्ता३ भिर्भुवं पृथ्वी समालिलिङ्गुरालिङ्गयामासुः । उत्प्रेक्ष्यते-वनाभ्युपेतान वनं प्राप्तान् नृन् मनुष्यान् छायायाः प्रदानेन वितरणेन च पुनः सत्फलैन्यमन्त्रयन्निव निमन्त्रयामासुरिव, यथाऽन्योऽपि सत्पुरुषः ६ खस्थाने समागतं जनं वसतिप्रदानेन सद्भोजनादिभिश्च निमन्त्रयतीति छायार्थः। समालिलिङ्गुरिति । सम्-आपूर्वात् 'लिगि गतौ' अस्माल्लिट् । लोलेति । 'चटुलं चपलं लोलं' इति हैमः । लुलदिति । ९ 'लुल विलसने' तुदादिरस्माल्लटः शत, यद्यपि धातुपाठेऽयं धातुर्न दृश्यते तथापि हैमकोशबृहद्वृत्तौ लोलशब्दाधिकारे लिखितोऽस्ति, यद्यपि तत्र भौवादिकस्य प्रयोगः कृतोऽस्ति परं महाकविप्रयोगात्तौ१२ दादिकोऽपि ज्ञायते, तथाच श्रीहेमाचार्यकृतपरिशिष्टपर्वणि तृतीयसगै नागश्रीदृष्टान्ते लुलदिति तौदादिकस्य प्रयोगः । एवं 'लुलकर्ण नमत्पुच्छं' इत्यादियशोधरचरित्रादावपि ज्ञेयम् । अमरवृत्तौ तु लोल१५ शब्दाधिकारे 'लुड विलोडने' धातुः प्रोक्तोऽस्ति, डलयोरैक्यमाश्रित्य शब्दसिद्धिः कृतास्ति । धातुपाठे तु अयमपि धातुर्न दृश्यते इति सुधीभिर्विभाव्यम् । लतेति । 'शिखा शाखा लताः समाः' इति हैमः । १० वनेत्यादि । वनमभ्युपेता वनाभ्युपेतास्तान् अभिउपपूर्वात् 'इण् गतौ' इत्यस्मात्करि क्तः । न्यमत्रयनिति । निपूर्वान्मन्त्रयतेर्लङ् । सत्फलैरिति । सन्ति समीचीनानि च तानि फलानि च तैः ॥२२॥ नीलामलुम्ब्याचितहारहूरोचैर्मण्डपेष्वास्तृतचारुपत्राः । २२ द्राक्षासवाघूर्णितताम्रनेत्राः कृतार्थयन्ति स वयो युवानः ॥२३॥ १ सचेत्यम्-१.... गृहोनी च लुलहीकरा तस्यां शये कथम् ॥२०२॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy