SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । समुच्चयो देवीसमूहः खलक्षणैस्तथाविधोत्कृष्टशोभालज्जादिचिहैरत्रेन्द्रभूतावेव एकस्मिन्नाऽऽश्रये समैक्ष्यत दृश्यते स्म । एतावता निरुपमश्रीहीधीकीयोऽस्यासन्निति भावः ॥ १२ ॥ अथास्य षडङ्गयादिचतुर्दशविद्यानिपुणत्वमाहअधीतपूर्वा खलु सर्वसत्कलाः स्मृता इवासनिह यस्य जन्मनि । तदस्य शिक्षाश्रुतपाठको गुरुर्व्यजी__ गणत्वस्य गुरुत्वगौणताम् ॥ १३ ॥ खलुर्यदर्थे, यतो यस्येन्द्रभूतेरिह जन्मनि सर्वाश्च ताः सत्कलाश्च ९ सर्वसत्कलाः ? पूर्वमधीता अधीतपूर्वाः भवाऽभ्यस्ताः स्मृता इव स्मरणविषयीकृता इव आसन् अभूवन् । अप्रयासेनैव सर्वाः कलाः समीयुरित्यर्थः । तत्तस्मात्कारणात् अस्येन्द्रभूतेः शिक्षाश्रुतस्य अकारादि-१२ वर्णविवेचकशिक्षाशास्त्रस्य पाठकोऽध्यापको गुरुः खस्य यद्गुरुस्वं गुरुभावस्तस्य गौणतामप्रधानत्वमजीगणत् गणयति स्म । खस्य पाठजन्यस्य क्लेशस्याप्यऽभवनात् खतोऽप्यधिकतरविद्याप्रादुर्भावाच्चेति १५ भावः । अधीतेत्यादि । 'भूतपूर्वे चर' (५॥३॥५३) इति निर्देशादत्रापि अधीतशब्दस्य पूर्वनिपातः । व्यजीगणदिति । चुरादिणिजन्ताद्गणसङ्ख्यानेऽस्मात्करि लुङ् । 'ई च गणः' (७४ ९७) इति अभ्यासस्य पक्षे ईत् ॥ १३ ॥ श्रुतेषु यत् सूत्रितमाघकोविदः सदौचितं नीतिविचारचेष्टितम् । २१ तथैव कल्पोऽस्य भवन खभावत श्वकार कल्पाऽऽगममात्मसाक्षिणम् ॥ १४॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy