SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । देवास्ताण्डवं नृत्यममण्डयन् , धातूनामनेकार्थत्वात् कुर्वन्ति स्मेत्यर्थः। च पुनस्तत्र केऽपि गायना गानक्रियाकर्त्तारो देवाः प्रमोश्चरित्रमाचारं जगुर्गायन्ति स्म । ताण्डवमिति । 'लास्यं नाट्यं च ताण्डव'मिति ३. हैमः ॥ ३६॥ तथा श्रुतेषु विश्रुतान् गुणांश्च केऽपि तुष्टुवुः । सुराश्च केऽपि सादरं मुहुः प्रणेमुरीश्वरम् ॥ ३७॥ ६ तथा तेनैव प्रकारेण केऽपि सुराः श्रुतेषु सिद्धान्तेषु विश्रुतान् प्रसिद्धान् प्रभोर्गुणान् निरुपमशममार्दवादीन् तुष्टुवुः स्तुवन्ति स्म । चः समुच्चये, च पुनः केऽपि सुरा ईश्वरं श्रीवीरपरमेश्वरं सह आदरेणेति ९ सादरं यथा स्यात्तथा मुहुर्वारंवारं प्रणेमुः प्रणमन्ति स्म ॥ ३७ ॥ प्रणीय जानुसंमितां चितिं प्रसूनपाततः । विभूषितां वसुन्धरां व्यधुश्च केऽपि योजनम् ॥ ३८॥ १२ च पुनः केऽपि सुराः प्रसूनानां पुष्पाणां पातनं पातो वर्षणं । तस्मात् जानुसंमितां जानुप्रमाणां चितिं चयं पुष्पपुलं प्रणीय कृत्वा योजनं योजनप्रमाणां वसुंधरां समवसरणपृथ्वीं विभूषितां शोभितां १५ व्यधुः कुर्वन्ति स ॥ ३८॥ महस्यमुत्र केचन वसुन्दरीभिरर्थिताः । प्रसादनाय चापरे स्वभर्तुरेव नाकिनः ॥ ३९॥ १८ स्वमित्रनोदिताः परेऽपरे खकीयभक्तितः। कुतूहलेन केऽपि च प्रमोदमाप्य चाययुः॥४०॥-युग्मम् । अमुत्र अमुष्मिन् महसि उत्सवे केचन नाकिनः केचिद्देवाः खसुन्दरीभिर्निजदेवाङ्गनाभिरर्थिताः प्रार्थिताः सन्तः आययुः आग-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy