SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ (सिद्धहेमशब्दानुशासनप्रशस्तौ) अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनीं वाचमुपास्महे || (काव्यानुशासनमङ्गलश्लोकः) न धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥१॥ प्रतिक्षणोत्पाद - विनाशयोगि- स्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी > वा ॥२॥ (अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम्) (भगवद्भक्तिः- वीतरागस्तवे) अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ अनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भवते नमः ||३|| असङ्गस्य जनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥४॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारले च त्वय्यात्माऽयं मयाऽर्पितः ॥५॥ लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किं पुनर्देषविप्लवः ? || ६ || 82 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy