SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ रचितानि । गूर्जरदेशस्य भारतस्य च संस्कृतसाहित्यक्षेत्रे तस्य प्रदानं वैविध्यपूर्णं श्रेष्ठगुणवत्तायुत्तं चाऽस्ति । तद्विरचितस्य सत्यहरिश्चन्द्रनाटकस्य इटलीदेशीय-भाषायां रूपान्तरमपि सञ्जातम् (ई. सं. १९१३) । एवं सत्यपि तस्य मुख्यप्रदानं तु नाट्यशास्त्रे एवाऽस्ति । यतो नाट्यशास्त्रस्य ग्रन्था एव अत्यल्पाः सन्ति । तेषां च रामचन्द्रसूरेर्नाट्यदर्पणं वैशिष्ट्ययुतमस्ति । विविधविषयकान्युदाहरणानि प्रस्तोतुं तेन चतुश्चत्वारिंशतो नाटकेभ्योऽवतरणानि सन्दृब्धानि । तदुल्लिखितनाटकानां कानिचन त्वद्याऽप्राप्याणि । यथा विशाखदत्तरचितं देवीचन्द्रगुप्तनाटकं न प्राप्यतेऽद्य । किन्तु तस्य बहून्यवतरणानि नाट्यदर्पणे विद्यन्ते । तैश्च मौर्य - कालीनेतिहासस्य बहूनि तथ्यानि प्रकटीभवन्ति । किञ्च नाट्यदर्पणे तेन रसशास्त्रमभिनयकलां चाऽऽश्रित्य कानिचन महत्त्वपूर्णानि तादात्विकरूढिभञ्जकानि च विधानानि कृतानि । अथ च पश्चात्कालीनग्रन्थेषु तस्य प्रसिद्धिः प्रबन्धशतकर्तृतया कृताऽस्ति साहित्यकारैः । स स्वयमपि स्वीयग्रन्थे विशेषणमिदं स्वकृते प्रयुनक्ति, यथा “श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तृमहाकवे रामचन्द्रस्य भूयांसः प्रबन्धाः ||" (निर्भयभीमव्यायोगः, प्रस्तावनायाम् ) तथा " इति श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्याम्भोनिधिना विशीर्णकाव्यनिर्माणतन्द्रेण श्रीमता रामचन्द्रेण विरचितं..... द्वितीयं रूपकम् ॥" (कौमुदीमित्राणन्दे) Jain Education InternationaFor Private 67 Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy