SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ॥ श्रीमहादेव - द्वात्रिंशिका ॥ प्रशान्तं दर्शनं यस्य, सर्वभूताऽभयप्रदम् । मङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राग-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् महाज्ञानं भवेद् यस्य, लोकालोकप्रकाशकम् । महादानं महाध्यानं, महादेवः स उच्यते महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते राग-द्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतो गुणतश्चैव मूर्तितो जिनशासने शक्तितो व्यक्तितश्चैव विधानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते नमोऽस्तु ते महादेव !, महादोषविवर्जित ! । महालोभविनिर्मुक्त !, महागुणसमन्वित ! महारागो महाद्वेषो, महामोहस्तथाऽपरः । कषायाश्च हता येन, महादेवः स उच्यते महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते 11211 11211 ॥३॥ 11811 ॥५॥ ॥६॥ ॥७॥ ॥८॥ 11811 112011 99 Jain Education InternationaFor Private Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy