SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ | श्रीवीतरागस्तोत्रे अव० - पश्चे० भवत्समीपे पञ्चेन्द्रियाणां सज्ञानानां मनुष्यादीनां दौः शील्यं दुष्टत्वं क्व भवेत् ?, न भवेदितियावद्यतः कारणादे केन्द्रियोऽप्यनिलो वातः प्रतिकूलतां मुञ्चति पृष्ठतः स्फुरणेन ॥ १२ ॥ ५६ वि०- हे निर्मलन्यायनिलय !, भगवन् !, भवदन्तिके त्वदुपान्ते हेयोपादेय कृत्याकृत्यविचारविशेषपुष्यदृहृषीकपाटवानां पञ्चेन्द्रियाणां तिर्यग्नरामराणां दौः शील्यं - दुःशीलता प्रातिकूल्यं क भवेत् कथं जायेत । यद्यस्मादेकेन्द्रियत्वेनैव विशिष्टविचारविकलोऽनिलोऽपि प्रतिकूलतां सम्मुखापातित्वं मुञ्चति - परिहरति । किमुक्तं भवति - किल येन भगवत्प्रभावेणैकेन्द्रिया अपि विनयं ग्राह्यन्ते तस्य पञ्चेन्द्रियप्रातिकूल्यत्याजनं समीचीनमेव । तथा भगवति विहरति दिव्यप्रभावात्तरवः शिरो नमयन्तीत्येतदेव युक्त्या व्यनक्ति मूर्ध्ना नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः ॥ १३॥ " अनु० - हे प्रभु! आपना माहात्म्यथी चमत्कार पामेला वृक्षो पण आपने मस्तकवडे नमस्कार करे छे. ते कारणे तेओना मस्तक कृतार्थ छे किन्तु आपने नहि नमनारा मिथ्यादृष्टिओना मस्तक व्यर्थ छे. (१३) अव० - मूर्ध्ना० हे वीतराग!, त्वन्माहात्म्य चमत्कृ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy