SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [ श्रीवीतरागस्तोत्रे शतियोजनशतेऽपि, पूर्वोत्पन्नाः प्राग्जाताः उपलक्षणादग्रेषण्मासान् यावदुत्पित्सवोऽपि गदाम्बुदाः-रोगमेघाः अञ्जसा-वेगेन सामस्त्येन वा विलीयन्ते-क्षयं यान्ति ॥ ४ ॥ वि०-गदा रोगास्त एव प्रथममणवोऽपि तथाविधसामग्रीसंघट्टनात् प्रसृमरा अम्बुदा इवाम्बुदास्ते तव विहारस्त्वद्विहारः स एवा. प्रतिबद्धत्वेनानिल इवानिलस्तदुर्मिभिरञ्जसा सामस्त्येन यद्विलीयन्तेविलयं यान्ति। कालावधिमाह-किंविशिष्टा गदाम्बुदाः?, पूर्वोत्पन्ना भगवद्विहारात् प्रथममुद्भूताः । इदमुक्तं भवति-भगवद्विहारेण वर्षार्धात् प्रथमोत्पन्ना व्याधयो विधूयन्ते, वर्षाद्धं च यावन्नवीना न प्रभवन्ति । क्षेत्रावधिमाह-साग्रेऽपि योजनशत इति, सह अग्रेण वर्तत इति साग्रं, तच्च तद्योजनशतं च पञ्चविंशत्यधिके योजनशत इत्यैदम्पर्यात् । समुचितश्चानिलोमिभिरम्बुदविलयो यच्चैतदेवं तत्तवैव योगसमृद्धिविजृम्भितमिति । किञ्चनाविर्भवन्ति यद्धमौ, मूषकाः शलभाः शुकाः। क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ॥५॥ अनु०-राजाओवडे दूर करायेली अनीतिओनी जेम भूमिने मूषक-उंदर, शलभ-तीड; अने शुकपोपट विगेरेना उपद्रवो क्षणवारमा नाबूद थई जाय छे अने नवीन उत्पन्न पण थता नथी. (५) अव०-नावि० हे वीतराग! यत् त्वयि विहरति मृषकाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy