SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः ] अव० लोको० हे वीतराग ! तव भवस्थितिस्तीर्थकरजन्ममर्यादा लोको० लोकशब्देन लोकमध्यस्थिता हरिहरादि. देवा ज्ञायन्ते तेभ्य उत्तीर्णस्तैः कदाचिन्न कृत इति लोकोत्तरः स चासौ चमत्कारश्च तत्करणशीला । यतः कारणात्तवाहारनीहारौ भोजनोत्सर्गविधी चर्मरूपाणि चढूंषि येषां ते (तथा) तेषां मनुष्याणामित्यर्थः, न गोचरो-न विषयो-न दृश्यत इति तात्पर्यमाविष्टलिङ्गत्वादेकवचनं गोचर इति ॥ ८॥ वि०-हे सर्वाद्भतनिधान ! भगवंस्तवाखिलकर्मक्लेशजालसमूलोन्मूलनादपुनर्भवस्थितिस्तावच्चमत्कारकारिण्येव किन्तु सकललोकसाधारणी भवस्थितिरपि लोकोत्तरचमत्कारकरी अलौकिकाश्चर्यकारिणी, यतो जन्मनः प्रभृति निर्वृतिपदप्राप्तिपर्यन्तं तवाहारनीहारौ गोचरौ चर्मचक्षुषां विशिष्टज्ञानलोचनशून्यानां न गोचरो न विषयः न केनापि चर्मचक्षुषा तवाहारनीहारौ दृश्यते इति । अत्र च नाहारनीहारौ गोचरौ चर्मचक्षुषामिति प्राप्ते विशिष्टबन्धचारुत्वनिमित्तमाविष्टलिङ्गत्वाद् विभिन्नवचनतेत्यदोषः । इयता च "देहं विमलसुअंधं, आमयपस्सेयवज्जियं रूवं । रुहिरं गोक्खीराभं, निव्विस्सं पण्डुरं मंसं ॥ १ ॥ आहारा नीहारा, अद्दिस्सा मंसचखुणो सययं । नीसासो अ सुअंधो, जम्मप्पभिई गुणा एए ॥ २ ॥” इत्यादिऋषिभाषितस्य संवादः । इति श्रीवीतरागस्तोत्रे द्वितीयस्य सहजातिशयवर्णनस्तवस्य पदयोजना। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy