SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १० | श्री वीतरागस्तोत्रे तमांसि निकाचितानि कर्माणि, विमलकेवलाssकोकेन च तेषां पारे प्रतिष्ठितं सत्त्वरजस्तमोलक्षण गुणयातीतमित्यर्थः । तमहमेवंरूपं परमात्मानं दुर्वारान्तरापरित्याजितात्मशक्तिः शरणं प्रपद्ये इत्युत्तरेण योगः । पुनः किंविशिष्टम् ?, आदित्यवर्णं, आदित्यस्य प्रभापतेरिव वर्णः शोभा यस्य स तथा तम् । अत्राह - परः, ननु परिमितक्षेत्रमात्रप्रकाशन महसा मिहिरेण लोकालोकप्रकाशनप्रवरपरमज्योतीरूपस्य परमात्मनः साम्यमनुपपन्नम् । तथा चागमः - " चंदाइच्च गहाणं पहा पयासे परिमियं खेत्तं । 'केवलियनाणलंभो लोयालोयं पयासे " ॥ १ ॥ इति । आचार्यः - साधु भो सहृदय ! हृदयंगममभिदधासि केवलं सकलेsपि कलावत्प्रमुखे तेजस्विवर्गे विगणयद्भिरस्माभिर्भानोरेव किमपि तदुपमानलवलाभसम्भावनास्वदत्वमुपलब्धमित्यादित्यवर्णमित्यभिहितं, तत्त्वतस्तु सुमेरुपरमाण्वोरिव महदन्तरं परमात्मद्वादशात्ममहसोरिति । आदित्योऽपि निरस्ततमस्त्वेन तमसः परस्ताद्भवति । तृतीयान्तं पदमाह । येन च भगवता परमात्मना क्लेशपादपाः सर्वेऽप्युदमूल्यन्त । “ अविद्योऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः । " १ केवालयं पुण नाणं. इति प्रत्यरे । २ पातञ्जले त्वेवं सूत्राणि अविद्यास्मितारागद्वेषाभिनिवेशा: पच क्लेशाः । २-३ । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या | २- ५ । दृग्दर्शन शक्त्योरेकात्मतेवास्मिता । २-६ | सुखानुशयी राग: । २- ७ । दुःखानुशयी द्वेषः । २-८ | स्वरसवाही विदुषोऽपि तथाssरूढो ऽभिनिवेश: । २-९ Jain Education International 6. For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy