SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अष्टादशः प्रकाशः ] २२५ स्यो लम्बोदरश्च गणेश इत्यादि । त्वं तु नेत्रवक्त्रादिविकारैरपि न विकृताकृतिः, किन्तु निर्विकारसर्वावयसुन्दरस्तदेवमप्यन्यदेवेभ्यस्त्वं विसदृशः ॥ २॥ तथा न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नागनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ हे नाथ ! अन्य देवोनी जेम आपना हस्तपल्लव त्रिशूल, धनुष अने चक्रादि शस्त्रोथी चिह्नित थया नथी. तेमज आपनो उत्संग-खोळो स्त्रीओना मनोहर अंगने आलिंगन करवामां तत्पर बन्यो नथी.(३) अव० न शूल०-हे वीतराग ! शूलधनुश्चक्रादीनि शस्त्राण्यङ्के-उत्सङ्गे येषामीदृशौ करपल्लवी यस्य स ईदृक्षी नासि । तथा सुभगरामाङ्गालिङ्गनपरो नासि ॥ ३ ॥ वि०-देवा हि शूलचापचक्रादिभिः शस्त्रैरङ्कितकरपल्लवाः स्युः, यथा-शूलभृत्पिनाकपाणिश्च हरः, शाङ्गभृच्चक्रधरश्च हरिः, शक्तिधरः कुमारः, परश्वधायुधः सिन्धुरास्य इति । तव तु पाणिपल्लवौ रेखारूपैरेव चापचक्रादिभिर्लाञ्छितौ न पुनरितरैः । तथा ते हि अङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणाः कमनीयकामिनीमनोहरशरीरपरिरम्भसुभगंभविष्णवः, तथाहि-गङ्गागौरीभ्यां गिरीशः, १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy