SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८८ [ श्रीवीतरागस्तोत्रे ... अव० संय०-हे वीतराग ! त्वयाऽक्षाणि-इन्द्रियाणि, न संयतानि बलानियन्त्रितानि, बलाद्वध्यमानान्यदृष्टविषयखरूपत्वात्सकौतुकानि नियन्त्रणां न प्रतिपद्यन्ते । न च त्वया तान्युच्छङ्कलितानि लौल्येन प्रवर्तितानि, इत्युमना प्रकारेण सम्यकप्रतिपदा सत्यबुद्ध्या त्वयेन्द्रियजयः कृतः । अयं च सविशेषकर्मणां (सावशेषकर्मणां) चरमदेहानामेव प्रकारः, शेषैस्तु सर्वबलेनापि यतनीयमिन्द्रियजये ॥२॥ वि०-हे भगवन् !, त्वया इन्द्रियजयः कृतः, कथमित्याहसंयतानि न चाक्षाणि । अक्षाणि-स्पर्शनादीन्द्रियाणि स्वस्वविषयेषु प्रवर्तमानानि न नियन्त्रितानि । विषयेभ्यश्च स्वयमेव व्यावृत्तानि नैव उच्छृङ्खलितानि उपेत्यापि न प्रवर्तितानि । किमुक्तं भवतियदि किल विषयोन्मुखान्येवाक्षाणि बलात्संयम्यन्ते तदा अदृष्टविषयस्वरूपाणि सकौतुकानि सस्पृहाणि च न प्रतिपद्यन्त एव नियन्त्रणाम् , यदा तु कियत्कालमुच्छृङ्खलं विषयेषु व्यापार्यन्ते तदा विज्ञातविषयस्वरूपाणि निवृत्तकौतुकानि कृतकृत्यानि स्वयमेव निवर्तन्ते, न च भूयो विकृतिमुपयान्ति । श्रूयते च-"येन संवत्सरो दृष्टः सकृत् कामश्च सेवितः । तेन विश्वमिदं दृष्टं पुनरावर्तते जगत् ॥१॥" इति । अयं च सावशेषकर्मणां चरमदेहानामेव इन्द्रियजयप्रकारः, गुरुकर्मभिः पुनरक्षविकारविक्षेपार्थ सादरं सेव्या एव दमोपायाः । एवं च त्वया इन्द्रियजयोपायं सम्यक्प्रतिपदा यथावत्प्रतिपदानेन हृषीकवशीकारः कृत इति ॥ २॥ 'अयं च' इत्यत आरभ्य 'दमोपायाः' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy