SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः प्रकाशः ] १८३ विषे (आपना चरणकमळमां) में मारो आ आत्मा समर्पित कयों छे. (७) ____ अव० अगो०-हे वीतराग ! अभूमिनिहिते गुणरत्ननिधाने, कर्मवृत्तिरहिते कल्पतरौ, मोक्षफलप्रदत्वेन चिन्तातिगे चिन्तामणी, त्वयि मयाऽयमात्मा अर्पितः। अत्र क्रमेण सप्तविभक्तिषु युष्मदो रूपाणि ज्ञातव्यानि ॥७॥ वि०-एवंविधे त्वयि मया आत्मा समर्पितः । अमून्यपि विरोधछायया पदानि । तथाहि-किं विशिष्टे त्वयि ?, रत्ननिधी, किम्भूते ?, अगोपिते, यश्च रत्ननिधिः स कथमगोपितो भवति ?, भगवांस्तु ज्ञानादिरत्नानां निधिरक्षीणसेवधिः त्रिभुवनजलप्रकटश्च तस्मिन् । तथा अवृते कल्पपादपे, सामान्योऽपि फलपुष्पप्रधानः शाखी कण्टकादिवृत्यात्रियते किमुत कल्पद्रुः ?, स्वामी तु सकलप्रणयिजनमनःसङ्कल्पपादपोऽपि कर्मवृतिभिर्न वृत इत्यवृतः । अथवाऽवृतेऽप्यप्रार्थितेऽपि प्रणयिनां कल्पद्रुकार्यकारिणि । तथा अचिन्त्ये चिन्तारत्ने च, यत्किल चिन्तारत्नं तच्चिन्तितमेव फलं वितरतीति कथमचिन्त्यम् ?, जगद्गुरुस्तु समस्ताचिन्तितार्थविश्रणनचिन्तामणिरपि अप्रमेयमहिमत्वेन वाकायमनसामगोचरत्वेनाचिन्त्यः । यदि वा चिन्तातिक्रान्तमोक्षफलप्रदत्वेनाचिन्त्यस्तस्मिन् एवंविधे त्वयि विश्वजनीने, मया आत्मा सर्वात्मना समर्पितस्त्वदा- ' यत्तः कृत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy