SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् - अथ कविः स्तवोपसंहारपूर्व स्वनाम व्यञ्जयन्नाह इत्थं समाहितधियो विधिवजिनेन्द्र ! . सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । त्वहिम्बनिर्मलमुखाम्बुजबद्धलक्षा ये संस्तवं तव विभो! रचयन्ति भव्याः ॥ ४३ ॥ जननयनकुमुदचन्द्र ! प्रभाखराः स्वर्गसम्पदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥'-युग्मम् क० वि०-हे जिनेन्द्र! हे विभो ! इत्थं विधिवद् ये भव्यास्तव संस्तवं रचयन्तीत्यन्व. यः। कवुक्तिः । हे 'जिनेन्द्र !' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः'। हे "वि. भो!' हे स्वामिन् ! । 'इत्थं पूर्वोक्तप्रकारेण । अनेन प्रकारेण इत्थम् । 'विधिवत्' विधिपू. र्वकम् । 'ये भव्याः' भव्यजनाः। 'तव संस्तवं' (भवतः) स्तोत्रम् । 'रचयन्ति' कुर्वन्ति । किलक्षणा भव्याः?।'समाहितधियः' समाहिता-एकाग्र्येण समाधिमती धीर्येषां ते 'बहुव्रीहिः। पुनः किंविशिष्टा भव्याः सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः' सान्द्रा-निश्छिद्रा ये उल्लसन्तः -उच्छ्वसन्तः पुलका-रोमाञ्चास्तैः कञ्चुकिताः कञ्चकैरिव विशिष्टा अङ्गभागाः-शरीरप्रदेशाः येषां ते । उल्लसन्तश्च ते पुलकाश्च उल्लसत्पुलकाः 'कर्मधारयः', सान्द्राश्च ते उल्लसत्पुलकाश्च सान्द्रोल्लसत्पुलकाः 'कर्मधारयः', कञ्चुको जात एषामिति कञ्चकिताः, अङ्गस्य भागा अङ्गभागाः 'तत्पुरुषः', सान्द्रोल्लसत्पुलकैः कञ्चकिताः सान्द्रोल्लसत्पुलककञ्चकिताः 'तत्पुरुषः', सान्द्रोल्लसत्पुलककञ्चकिता अङ्गभागा येषां ते (सान्द्रो०) 'बहुव्रीहिः' । पुनः किंविशिष्टा भव्याः? 'त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षाः' तव-भवतो बिम्बवत्-चन्द्रमण्डलवत् । एतत्प्रान्ते क-प्रतौ उल्लेखोऽयम् "इति महाकविश्रीसिद्धसेनदिवाकरविरचितं श्रीकल्याणमन्दिरस्तोत्रं सम्पूर्णम् । लिखितं गणिसकलवादिकौशिकसहस्रांशुपण्डित श्री १०५१ केसरसागरगणिशिष्यगणिअनन्तसागरलिपीकृतं सकलप्रवरपण्डित-श्रीपश्रीकान्तिसामरगणिप्रसादात् । संवत् १७६३ वर्षे मृगशिर शुदि ८ मी तिथौ सोमवासरे श्रीऋषभनाथ. प्रसादात् ॥" ग-प्रतौ तु यथा "इति श्रीकल्याणमन्दिरस्तोत्रं तत्त्वविमलेन लिपीकृतं ॥ शुभं भवतु, कल्याणमस्तु ।" घ-प्रतौ तु एवम्-.. इति श्रीकल्याणमन्दिरस्तोत्रं सम्पूर्ण श्रीसिद्धसेनदिवाकरविरचितं श्रीमारसमुदपत्तने लि. 1 छ । द्वितीयविवृतेः क-प्रतेः प्रान्ते इस्थम्- . इति श्रीकल्याणमन्दिरस्तोत्रम् ॥ छ॥ श्री ॥छ । संवत् १७०० वर्षे चैत्रवदि तृतीया । -------- २ 'वेष्टिता' इति प्रतिभाति। भ.२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy