SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् २०९ 'अनर्थाः' न अर्था अनर्थाः । एते' प्रत्यक्षरूपाः । 'हि' यस्मात् । कथं मां विधुरयन्तिक्लेशयन्ति । यदि हि त्वं दृष्टोऽभविष्यः तदा न मां एते अनर्था व्यधुरयिष्यन् । इति सप्तत्रिंशत्तमवृत्तार्थः ॥ ३७॥ मा० वि०-नूनमिति । हे विभो! नूनं-निश्चितं त्वं मया पूर्व-पूर्वजन्मनि सकृदपि न प्रविलोकितोऽसि-न दृष्टोऽसि । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम् । केन ? 'मया' । त्वं किम्भूतः ? 'प्रविलोकितः । कथम् ? 'न' । कथम् ? 'पूर्वम्' । कथम् ? 'सकृदपि' एकवारमपि । मया किंलक्षणेन ? मोहो-मौन्यं स एव तिमिरम्-अन्धकारं तेन आवृते-आच्छादिते लोचने यस्य स तेन । एवं कथं ज्ञातं तत्रार्थे हेतुमाह-हि-निश्चितम् अन्यथा माम् एते अनर्थाः-क्लेशाः कथं विधुरयन्ति ?-पीडयन्ति ? । 'विधुरयन्ति' इति क्रियापदम् । के कर्तारः? 'अनर्थाः' । कं कर्मतापन्नम् ? 'माम्' । अनर्थाः किंलक्षणाः? 'मर्माविधः' मर्माणि आविध्यन्ति-भिन्दन्ति इति मर्माविधः, मर्मस्थानभेदका इत्यर्थः । पुनः किंलक्षणाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यन्त्यः-प्रभवन्त्यः प्रबन्धगतयःसन्तानगतयो येभ्यस्ते, प्रादुर्भवत्परम्पराका इत्यर्थः॥ प्रविपूर्वः 'लोकृड् दर्शने' (सिद्ध० धा०) लोक्धातुः क्तप्रत्ययः इट् प्रविलोकितः इति जातम् । असीति पूर्ववत् । आपूर्वः 'व्यधंच ताडने' (सिद्ध० धा० )व्यध(धातुः) आविध्यन्तीति आविधः विप्प्रत्ययः विपो लोपः 'ज्याव्येव्यधिव्यचिव्यथेरिः' (सिद्ध ४-१-७१) इति वृत् यस्य इकारः जसि आविधः इति जातम् । विधुरं कुर्वन्तीति विधुरयन्ति, 'णिज् बहुलं नाम्नः कृगादिषु' (सिद्ध० ३-४-४२) णिजप्रत्ययः, 'त्र्यन्त्यस्वरादेः', (सिद्ध०७-४-४३) इति रस्य अलोपः, 'गुणः०' (सिद्ध० ३-३-२) शव् , ए अय्, 'लुगस्यादेत्यपदे' (सिद्ध०२-१-११३) अलोपः विधुरयन्ति । यदि पूर्व त्वं दृष्टो भवेत् , तदा मां अनर्थाः कथं पीडयन्ति ? । पीडयन्ति चेत् , तदा त्वं पूर्व दृष्टो नास्ति इति लिङ्गदर्शने लिङ्गिज्ञानम् । इति सप्तत्रिंशत्तमकाव्यं विवरणतो (वृत्तम् ॥ ३७॥ The sight of God averts adversities. It is certain, oh Omnipotent one! that Thou hast not been formerly seen even once by me whose eyes are blinded by the darkness of infatuation. For, otherwise, how can these misfortunes which pierce the vital parts of the heart and which are quickly appearing in a continuous succession, make me miserable? (37) १ 'प्रकटस्वरूपाः' इति घ-पाठः। भ. २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy