SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ १४२ कल्याणमन्दिरस्तोत्रम् 'डधांग्क् धारणपोषणयोः' (सिद्ध धा०) धाधातुः आनशप्रत्ययः । 'हवःशिति' (सिद्ध०४-१-१२) द्वित्वं, 'हस्वः' (सिद्ध०४-१-३९) इति पूर्वस्य इस्वत्वं 'द्वितीयतुर्ययोः पूर्वी' (सिद्ध० ४-१-४२) इति पूर्वधस्य दत्वं, 'नश्चातः' (सिद्ध०४-२-९६) इति आलोपः जसि दधाना इति जातम् । जन्म एव उदधिः जन्मोदधिस्तम् । अतिलघो र्भावोऽतिलाघवं तेनातिलाघवेन ॥ इति द्वादशकाव्यार्थलेशः ॥ १२॥ ... Power of the great is unimaginable. Oh Master ! How do the beings who resort to Thee soon cross the ocean of births (and deaths) with the greatest ease, when they carry in their heart, Thee, that art excessively heavy (dignified)? Or why, prowess of the great is incomprehensible. (12) क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो ___ध्वस्तास्तदा बत कथं किल कर्मचौराः?। प्लोषत्यमुत्र यदिवा शिशिराऽपि लोके नीलद्रुमाणि विपिनानि न किं हिमानी ? ॥ १३ ॥ क. वृ०-हे विभो ! यदि त्वया प्रथम क्रोधो निरस्त इत्यन्वयः। कर्मोक्तिः । 'प्रथम' पूर्वम् । त्वया यदि 'क्रोधः' कोपः । 'निरस्तः' मूलतोऽपि क्षिप्तः। तदा बत कर्मचौराः कथं ध्वस्ताः? । कर्मोक्तिः । तदा वतेत्यामन्त्रणे । हे स्वामिन् ! त्वयेति शेषः। 'कर्मचौराः' कर्मतस्कराः । कर्माण्येव चौराः कर्मचौराः 'कर्मधारयः'। किलेति सम्भावनायाम् । कथमिति प्रश्शे । 'ध्वस्ताः' व्यापादिताः। हननं तु क्रोधाकुलचेतसो नरस्य स्यात् , त्वया तु क्रोधं विनाऽपि कर्मचौरा निहता इत्येतत् कथं सम्भाव्यत इत्यर्थः । यदिवा शिशिराऽपि हिमानी नीलद्रुमाणि विपिनान्यमुत्र लोके किं न प्लोषति ? अपि तु प्लोषति । कवुक्तिः । 'यदिवा' अथवा । 'शिशिराऽपि' शीतलस्वभावाऽपि । 'हिमानी' महद् हिमम् । नीलाः -शाला द्रुमाः-तरवो यत्र तानि नीलगुमाणि 'बहुव्रीहिः' । 'विपिनानि' वनानि । 'अ. मुत्र' अस्मिन् । 'लोके' विश्वे । 'किं न प्लोषति ?' किं न दहति ? । अपि तु हिमानी शीत. स्वरूपाऽपि वनानि दहत्येव प्रसिद्धमेतद् । इति त्रयोदशवृत्तार्थः ॥ १३ ॥ .. मा० वि०-क्रोधस्त्वयेति । हे विभो! यदि त्वया क्रोधः प्रथमं निरस्तः-क्षिप्तः । "निरस्तः' इति क्रियापदम् । केन का? 'त्वया' । कः कर्मतापन्नः? 'क्रोधः'। कथम्? प्रथमं पूर्वम् । वत इति आश्चर्ये । तदा त्वया किल इति सत्ये कर्मचौराः कथं ध्वस्ताः! -हताः!, क्रोधं विना हननासम्भवात् , ततोऽयं प्रश्नगर्भवाक्यार्थः । 'ध्वस्ताः' इति क्रियापदम् । केन का? 'त्वया' । के कर्मतापन्नाः? 'कर्मचौराः' । कथम् ? 'तदा' । कथम्? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy