SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् १६७ गतसबलवाहरिक (१) लोकभयेन नश्यद्भिः । 'चौरैः' तस्करैः । 'आशु' शीघ्रम् | 'इव' यथा । 'पशवः' धेनुप्रभृतयः । मुच्यन्ते ॥ इति नवमवृत्तार्थः ॥ ९ ॥ मा० वि० - मुच्यन्त इति । हे जिनेन्द्र ! रौद्रैरुपद्रवशतैः त्वयि वीक्षितेपि स मनुजा:- मनुष्या मुच्यन्ते एवेति निश्चयेन । 'मुच्यन्ते' इति क्रियापदम् । कैः कर्तृभिः ? 'उपद्रवशतैः' । के कर्मतापन्नाः ? 'मनुजाः' । कथम् ? 'एव' । कथम् ? 'सहसा' शीघ्रम् । किंलक्षणैः उपद्रवशतैः ? 'रौद्रैः' भीषणैः । कस्मिन् सति ? 'त्वयि' सति । त्वयि किंलक्षणे ? 'वीक्षिते' दृष्टे । कथम् ? 'अपि' । उक्तार्थ दृष्टान्तयति - इव - यथा चौरैः गोस्वामिनि - सूर्ये दृष्टमात्रे सति पशवो मुच्यन्ते । 'मुच्यन्ते' इति क्रियापदम् । कैः कर्तृभिः ? 'चौरैः' । के कर्मतापन्नाः ? ' पशवः' । कस्मिन् सति ? 'गोस्वामिनि' सूर्ये । गोस्वामिनि कीदृशे ? 'दृष्टमात्रे' सति । गोस्वामिनि किंलक्षणे ? 'स्फुरिततेजसि ' दीप्तकिरणे । कथम् ? 'आशु' शीघ्रम् । चौरैः किंलक्षणैः ? 'प्रपलायमानैः' नश्यद्भिः ॥ 'मुलंती मोक्षणे' (सिद्ध० धा० ) मुच् (धातुः) 'वर्तमाना अन्ते' (सिद्ध० ३-३-६) 'क्यः शिति' (सिद्ध० ३-४ -७० ) क्यप्रत्ययः यस्याकारलोपे संहितायां मुच्यन्ते इति सिद्धम् । उपद्रवानां शतानि उपद्रवशतानि तैः । गवां-किरणानां स्वामी गोस्वामी तस्मिन् । स्फुरितं तेजो यस्य स स्फुरिततेजास्तस्मिन् । केवलं दृष्टो दृष्टमात्रस्तस्मिन् । प्रपरोपसर्गाभ्यां परः 'अयि वयि पयि मयि ( नयि चयि रयि ) गतौ ' ( सिद्ध० धा० ) अयधातुः आनश्प्रत्ययः शव् अतोम् आने मकारागमः रस्य लकारः संहितायां प्रपलायमान इति जातं मिसि प्रपलायमानैः । इति नवमकाव्यार्थः ॥ ९ ॥ He points out the advantage of seeing God. Oh Lord of the Jinas! No sooner art Thou merely seen by persons, than they are indeed spontaneously released from hundreds of horrible adversities, like the beasts from the thieves that are fleeing away at the mere sight of (1) the sun resplendent with lustre, ( 2 ) the king or ( 3 ) the cowherd shining with valour. (9) X 32 点 您 त्वं तारको जिन ! कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः ? | यद्वा दृतिस्तरति यज्जलमेष नूनमन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ १ 'काव्यार्थलेशः' इति ख- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy