SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् १६१ ३-२-७) सिलोपः, कर्तुमिति सिद्धम् । न विद्यते सङ्ख्या येषां ते असङ्ख्याः, असङ्ख्याश्च ते गुणाश्च असङ्ख्यगुणाः, लसन्तश्च ते असङ्ख्यगुणाश्च लसदसङ्ख्यगुणाः, लसदसङ्ख्यगुणानां आकरः लसदसङ्ख्यगुणाकरस्तस्य । बाह्वोयुगं बाहुयुगं, निजस्य बाहुयुगं निजबाहुयुगं तत् । विपूर्वः 'तनूयी विस्तारे' (सिद्ध० धा०) तन्( धातुः) क्त्वाप्रत्ययः 'अनञः त्वो य' (सिद्ध०३-२-१५४ ) इति यवादेशः 'यमि०' इति सूत्रेण नलोपे 'हस्वस्य तः पित्कृति' (सिद्ध०४-४-११३) इति तागमे सिलोपे वितत्येति रूपम् । विस्तीर्णस्य भावो विस्तीर्णता ताम् । यथा प्ररूपयति वर्णयति तथा कथयतीति ज्ञेयम् । स्वस्य धीः स्वधीस्तया स्वधिया । अम्बुनः राशिः अम्बुराशिस्तस्य । इति पञ्चमवृत्तार्थः ॥५॥ He mentions one by one the reasons of commencing the hymn: Oh Lord! I, though dull-witted, have started to sing a song of Thine, the mine of innumerable resplendent virtues. (For) does not even a child describe according to its own intellect the vastness of the ocean by stretching its arms ?. (5) अथानन्तरोदीरितकाव्यद्वयस्यैवार्थ दृढयन्नाह ये योगिनामपि न यान्ति गुणास्तवेश ! __ वक्तुं कथं भवति तेषु ममावकाशः? । जाता तदेवमसमीक्षितकारितेयं जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ क. वृ०-हे ईश! (-हे स्वामिन् !) ये तव गुणा योगिनामपि वक्तुं न यान्तीत्यन्वयः। कंत्रुक्तिः। योगिनामपि' रत्नत्रयरूपयोगाराधनेनोत्पन्नज्ञानानामपि योगीन्द्राणाम् । योगो विद्यते येषां ते योगिनस्तेषां 'बहुव्रीहिः' (१)। 'वक्तुं न यान्ति' वाचो गोचरतांन प्राप्नुवन्तीति भावः। तेषु गुणेषु ममावकाशः कथं भवतु ? । कत्रुक्तिः। अत्रार्थे सर्वथा मम वचनावकाशो नैवास्तीत्यर्थः । तदियमसमीक्षितकारिता जाता । कर्तर्युक्तिः। तस्मात् कारणादेव स्तोतुमवकाशाभावे सत्यपि इयं प्रस्तुतस्तुतिकरणविषया असमीक्षितकारिता-अविमृष्टविधायिता । समीक्षितं करोतीत्येवं समीक्षितकारी, न समीक्षितकारी असमीक्षितकारी 'तत्पुरुषः', असमीक्षितकारिणो भावो असमीक्षितकारिता, मम जाता । अनवकाशेऽपीयं स्तुतिरविचारेण कर्तुं प्रारब्धेति भावः । 'वा' अथवा । नन्विति सम्यग्वादे । 'पक्षिणोऽपि' पक्षी विद्यन्ते येषां ते पक्षिणो निजगिरा जल्पन्ति । कवुक्तिः । 'पक्षिणोऽपि' मनुष्यभाषया भाषितुमज्ञाः पतत्रिणोऽपि । 'निजगिरा' स्वभाषया । निजा चासौ गीश्च निजगीस्तया १ 'कर्तयुक्तिः' इति ख-पाठः। २ चिन्त्योऽयमुल्लेखः, 'भस्त्यर्थे' इति प्रतिभाति । भ०२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy