SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् १५९ यात् अनुभवन्नपि-साक्षाजानन्नपि नूनं-निश्चितं तव गुणान् गणयितुं-सङ्ख्यातुं-इयत्ताविषयीकर्तुं न क्षमेत-न समर्थो भवेत् । 'क्षमेत' इति क्रियापदम् । कथम् ? 'न'। कः कर्ता ? 'मर्त्यः । किं कर्तुम् ? 'गणयितुम्' । कान्? 'गुणान्' । कस्य ? 'तव' । मर्त्यः किं कुर्वन् ? 'अनुभवन्' । कथम् ? 'अपि' । कस्मात् ? 'मोहक्षयात्' । एतदेव दृष्टान्तेन दृढयति-ननु इति। ननु इति सम्भावनायाम् । यस्मात्-कारणात् कल्पान्तवान्तपयसो जलधेः प्रकटोऽपि रत्नराशिः केन मीयेत? अपि तु न मीयेत-न मानविषयीक्रियेत । 'मीयेत' इति क्रियापदम् । केन का? 'केन' । कः कर्मतापन्नः? 'रत्नराशिः' । कस्य ? 'जलधेः । किम्भू. तस्य ? कल्पान्तेन वान्तं-क्षयं गतं पयो-जलं यस्य स कल्पान्तवान्तपयास्तस्य । रत्नराशि: किंलक्षणः? 'प्रकटः' । मोहस्य क्षयः मोहक्षयस्तस्मात् ॥ ___ अनुपूर्वो भूधातुः । अनुभवतीति अनुभवन् शतृप्रत्ययः शव् गुणः ओ अ अकारलोपः संहिता ऋदुदितोनोऽन्तःतलोपः सिलोपः अनुभवन् इति सिद्धम्। 'गणण संख्याने' (सिद्ध धा०) इत्यस्य वर्णयितुंवद् ज्ञेयम् । 'क्षमौच सहने' । क्षमधातुः । 'सप्तमी ईत' (सिद्ध ३-३-७), शव् 'अवर्णस्येवादिनैदोदरल्' (सिद्ध १-२-६), क्षमेत इति सिद्धम् । 'मांङ्क मानशब्दयोः' (सिद्ध० धा०) माधातुः, 'क्यः शिति' (सिद्ध० ३-४-७०), 'सप्तमी ईत', 'ईय॑ञ्जनेऽयपि' (सिद्ध०४-३-९७ ) इति आकारस्य ईकारः सन्धिः मीयेत इति जातम् । किम्शब्दतृतीया टा, 'किमः कस्तसादौ च' (सिद्ध०२-१-४०) किम्शब्दस्य कः, 'टाडसोरिनस्यौ' (सिद्ध०१-४-५) टाया इनादेशः, केन इति सिद्धम् । जलं धीयतेऽस्मिन् (इति) जलधिः । धाधातुः, किः प्रत्ययः, 'इडेत् पुसि चातो लुक् ' (सिद्ध० ४-३-९४) आकारलोपः जलधिरिति जातं तस्य जलधेः । रत्नानां राशिः रत्नराशिः। इति तुर्यकाव्यार्थः॥४॥ He suggests that even the omniscient cannot enumerate Thy virtues: Oh Lord! a mortal is surely incapable of counting Thy merits, in spite of his realizing them, owing to the annihilation of his infatution; (for), who can measure the heap of jewels, though obvious, in the ocean emptied of waters at the time of the destruction of the universe? (4) एवं सत्यपि प्रवर्तने हेतुमुपदिशति अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि __ कर्तुं स्तवं लसदसङ्ख्यगुणाकरस्य । वालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥५॥ १ 'मुपदर्शयति' इति ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy