SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीसिद्धसेनदिवाकरकृतं ॥ कल्याणमन्दिरस्तोत्रम् ॥ (श्रीकनककुशलगणिगुम्फितवृत्ति-श्रीमाणिक्यचन्द्रमुनीशसूत्रितविवृतिविभूषितम् ) ____ श्रीऋषभनाथाय नमः । कल्याणमन्दिरमुदारमवद्यभेदि ___ भीताभयप्रदमनिन्दितमंहिपद्मम् । संसारसागरनिमज्जदशेषजन्तु पोतायमानमभिनम्य जिनेश्वरस्य ॥ १॥-वसन्ततिलका यस्य स्वयं सुरगुरुगरिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य 'कमठ'स्मयधूमकेतो स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥-युग्मम् श्रीकनककुशलगणिगुम्फिता वृत्तिः प्रणम्य पार्श्वमिष्टार्थ-सार्थपूर्तिसुरद्रुमम् । 'कल्याणमन्दिर स्तोत्रं, विवृणोमि यथामति ॥१॥ कल्याण०, यस्य स्वयं० इत्यनयोर्युग्मरूपयोर्व्याख्या--तस्य संस्तवनं एषोऽहं करिष्ये इति क्रियापदसण्टङ्कः। कर्तयुक्तिः। संस्तवन' स्तुतिम्। 'एषः' प्रत्यक्षः। अहमिति सिद्धसेनदिवाकरः । 'करिष्ये' विधास्ये । कस्य ? 'तस्य' । तस्य किंलक्षणस्य ? 'तीर्थेश्वरस्य' तीर्थचतुर्वर्णः सङ्घः प्रथमगणधरो वा तस्येश्वरो-नायकः, तद्विधानात्, तीर्थस्येश्वरः तीर्थेश्वरस्तस्य 'तत्पुरुषः' । पुनः किंलक्षणस्य तस्य ? । 'कमठस्मयधूमकेतोः' कमठस्य यः स्मयःअहङ्कारस्तस्मिन् धूमकेतुरिव धूमकेतुः । अत्र धूमकेतुरग्निरुत्पातो वा ज्ञातव्यः, “धूमकेतुर्वयुत्पातौ” इत्यनेकार्थ(श्लो० १४८३ )वचनात् । कमठस्य स्मयः कमठस्मयः 'तत्पुरुषः', कमठस्मये धूमकेतुः कमठस्मयधूमकेतुः तस्य 'तत्पुरुषः' । 'समर्थविशेषणाद् विशेष्यं लभ्यते' इति न्यायात् श्रीपार्श्वनाथस्येत्यर्थः । किं कृत्वा ? 'अभिनम्य' प्रणम्य । १ 'श्रीसिद्धचक्राय नमः' इति ख-पाठः । २ अयं कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिरचितोऽनेकार्थसंग्रहः । भ० २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy