SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १४८ भक्तामरस्तोत्रवृत्तिः विजितो दुर्जयजेयपक्षो यैस्ते विजितदुर्जयजेयपक्षाः 'बहुव्रीहिः' । युद्धे किंभूते? 'कुन्ताअभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे' कुन्तायैर्भिन्नानां-पाटितानां गजानां-हस्तिनां शोणितं-रुधिरं तदेव वारिवाहो-जलप्रवाहस्तस्मिन् वेगावतारात्-त्वरितप्रवेशात् तरणे-प्लवने आतुरैः-व्याकुलैर्योधैर्भीम-भयानकं तस्मिन् । कुन्तानां अग्राणि कुन्ताग्राणि 'तत्पुरुषः', कुन्तायैर्भिन्नाः कुन्तामभिन्नाः 'तत्पुरुषः', कुन्तामभिन्नाश्च ते गजाश्च कुन्ताग्रभिन्नगजाः 'कर्मधारयः', कुन्ताग्रभिन्नगजानां शोणितं कुन्ताग्रभिन्नगजशोणितं 'तत्पुरुषः', वारिणो वाहो वारिवाहः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कुन्ताग्रभिन्नगजशोणितवारिवाहः 'कर्मधारयः', वेगेनावतारो वेगावतारः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहस्य वेगावतारः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारः ('तत्पुरुषः'), तरणे आतुराः तरणातुराः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारात् तरणातुराः कुन्तामभिन्नगजशोणितवारिवाहवेगावतारतर- णातुराः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुराश्च ते योधाश्च कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधाः 'कर्मधारयः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधैर्भीमं कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमं तस्मिन् 'तत्पुरुषः' । इत्येकोनचत्वारिंशत्तमवृत्तार्थः॥ ३९॥ अथ जलापदं प्रशमयन्नाह-(अम्भोनिधावित्यादि)। व्याख्या-हे भवोदधिपोत! अम्भोनिधौ-समुद्रे अम्भो निधीयतेऽस्मिन्नित्यम्भोनिघिस्तस्मिन् 'तत्पुरुषः', सांयात्रिका जना भवतः स्मरणात् त्रासम्-आकस्मिकं भयं विहाय -त्यक्त्वा व्रजन्ति-क्रमेण स्वस्थानं यान्ति । जनाः किंलक्षणाः? 'रङ्गत्तरङ्गशिखरस्थितयानपात्राः' उच्छलत्कल्लोलाग्रवर्तिवाहनाः । रङ्गन्तश्च ते तरङ्गाश्च रङ्गत्तरङ्गाः 'कर्मधारयः', रङ्गत्तरङ्गाणां शिखराणि रङ्गत्तरङ्गशिखराणि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरेषु स्थितानि रङ्गत्तरङ्गशिखरस्थितानि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरस्थितानि यानपात्राणि येषां ते रङ्गत्तरङ्गशिखरस्थितयानपात्राः 'बहुव्रीहिः' । अम्भोनिधौ कथंभूते? 'क्षुभितभीषणनकचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ क्षुभिता:-क्षोभं गताः भीषणानि-रौद्राणि नकचक्राणिदुष्टजलजन्तुवृन्दानि पाठीनपीठौ-मत्स्यभेदौ च भयदो-भयोत्पादक उल्बणः-प्रकटो वाडवाग्निः-वडवानलश्च यत्र स तस्मिन् । नक्राणां चक्राणि नकचक्राणि 'तत्पुरुषः', भीषणानि च तानि नकचक्राणि च भीषणनचक्राणि 'कर्मधारयः', पाठीनाश्च पीठाश्च पाठीनपीठाः 'द्वन्द्वः', वाडवश्चासावग्निश्च वाडवाग्निः 'कर्मधारयः', उल्बणश्चासौ वाडवाग्निश्च उल्बणवाडवाग्निः 'कर्मधारयः', भयं ददातीति भयदः 'तत्पुरुषः', भयदश्चासावुल्बणवाडवाग्निश्च भयदोल्बणवाडवाग्निः 'कर्मधारयः', भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनकचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः 'द्वन्द्वः', क्षुभिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy