SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १२२ भक्तामरस्तोत्रम् शकुनार्णवेऽपि “पद्मिनी राजहंसाश्च, श्वेतभिक्षुतपोधनाः। यं देशमुपसर्पन्ति, तत्र देशे शुभं वदेत् ॥ १॥"-अनु० पुष्पेषु प्राधान्यं पद्मानामिति । चतुर्दशस्वप्नेष्वपि कुसुमस्रक् प्रशस्या । तीर्थकृदाहारविहारसमवसृत्यवसरे कुसुमवृष्टिः शुभकृदुक्तेति विचार्यम् । स्तवान्ते लक्ष्मीशब्दो माङ्गल्यार्थवाची । तेन स्तोत्रं पिपठिषूणां शुश्रूषूणां व्याचिख्यासूनां निदिध्यासूनां च पुरुषाणामास्तवसमाप्तेरनारतं कल्याणपरम्परा भविष्यतीत्यर्थः । अथ(वा) प्राणिनांप्रतिष्ठाहेतुः श्रीरेव । उक्तं च "वारांराशिरसौ प्रसूय भवती रत्नाकरत्वं गतो विष्णुस्त्वत्पतितामवाप्य भुवने जातस्त्रिलोकीपतिः। कन्दर्पो जनचित्तनन्दन इति त्वन्नन्दनत्वादभूत् । सर्वत्र त्वदनुग्रहप्रणयिनी पझे ! महत्त्वस्थितिः॥१॥"-शार्दूल. अन्योऽपि शुभोऽर्थः सुधीभिः स्वधिया व्याख्येयः । इति चतुश्चत्वारिंशद्वृत्तार्थः सम्पूर्णः । तत्सम्पूतौं सम्पूर्णेयं भक्तामरस्तववृत्तिः सप्रभावककथानिकासंयुक्ता ॥ (अथ प्रशस्तिः -) गिरां गुम्फधात्री कवीन्द्रेषु वाणी चतुर्वर्णवर्ण्यश्चतुर्वर्णसङ्घः। गुरुश्चानुशास्ता सुधीः श्रोतृवर्गों जयेयुर्जगत्याममी आसमुद्रम् ॥१॥-भुजङ्गप्रयातम् । श्री'चन्द्र'गच्छेऽभयसूरिवंशे श्री रुद्रपल्लीय गणाब्धिचन्द्राः। श्रीचन्द्रसूरिप्रवरा बभुस्ते यद्भातरः श्रीविमलेन्दुसंज्ञाः॥२॥-इन्द्रवत्रा तत्पट्टे जिनभद्रसूरिगुरवः सल्लब्धिलब्धप्रभाः सिद्धान्ताम्बुधिकुम्भसम्भवनिभाः प्रेसन्मनीषाशुभाः। जातः श्रीगुणशेखराभिधगुरुस्तस्मात् तपोनिर्मलः . शीलश्रीतिलको जगत्तिलक इत्यासीद् गुरुग्रामणीः ॥ ३ ॥-शार्दूल० १ भुजङ्गप्रयात-लक्षणम् "भुजङ्गप्रयातं चतुर्भिर्यकारैः”। २ 'पुनर्निर्मलः' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy