SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ११८ भक्तामरस्तोत्रम् तथा, बृहच्चासौ निगडश्च बृहन्निगडः, तस्य कोटिः, तया निघृष्टे जो येषां ते तथा । तव नाम स्वनाम, मन्त्र इव मत्रः, त्वन्नाम चासौ मत्रश्च त्वन्नाममनस्तम् । बन्धस्य भयं बन्धभयं, विगतं बन्धमयं येषां ते तथा । आपादकण्ठमित्यत्राव्ययीभावेऽपि 'आडावधौ' (सिद्ध० अ० २, पा०२, सू०७०) इति पञ्चमी, तस्याश्च न अमादेश इति तेन क्रियाविशेषणत्वाद् द्वितीया ॥ इति काव्यार्थः ॥ ४२ ॥ Thy name sets prisoners at liberty. Those men whose limbs are clothed from foot to neck in heavy fetters and whose shanks are severely skinned by millions of strong chains, automatically become at once free from the fear of bondage by always meditating upon Thy name as a Mantra. ( 42 ) अथाष्टमीनाशेन स्तवं संक्षिपन्नाह (ग्रं० १५००) मत्तद्विपेन्द्र-मृगराज-दवानला-हि समाम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ गु०वि०-हे अमेयमहिमन् ! तस्य प्राणिनो भयं-भीः आशु-शीघ्र मियेव-भयेनेव नाशं उपयाति-ध्वंसमायाति, यो मतिमान्-सप्रज्ञः पुमान् तावक-भवदीयम् इम-प्रागुक्तस्वरूपं स्तवं-स्तोत्रम् अधीते-पठति । किंभूतं भयम् ? मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरश्च बन्धनं च तेभ्य उत्था-उत्पत्तिर्यस्य तत् । भवतः-तव मन्त्राध्यायप्रभविष्णुप्रभावयुतान्नराद् भयस्यापि भयं भवतीति युक्तोत्प्रेक्षा। भयभेत्तृत्वादैहिकार्थकृत्त्वादन्यसुरवत् तीर्थकृदपीति न चिन्त्यम् । यतो बुद्धस्य सिद्धस्य क्षीणकर्मणो भगवतः स्मरणात् तुष्टाः सद्भक्तसुराः सर्वमर्थ सम्पादयन्ति । वीतरागध्याना. न्मुक्तिरेव मुख्यं फलम्, अन्यत् प्रासङ्गिकं, कृषः पलालवदिति । अथ ___"अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः? ॥१॥" अनु० अत्र बहु वक्तव्यं तत् स्वधिया विचार्य सुधीभिः ॥ इति वृत्तार्थः ॥ ४३ ॥ मे० वृ०-अथ थुगपदष्टभयनाशेन स्तुवन्नाह-(मत्तेत्यादि ) । हे जिनेन्द्र ! यः मतिमान् इम-प्रत्यक्षं तावकं स्तवं अधीते-पठति इत्यन्वयः । 'अधीते' इति क्रियापदम् । कः कर्ता ? 'या' अतिरसास्तीति प्रतिमाम् । कर्मतापनम् ? 'इमं स्तवं स्तोत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy