SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 880 भक्तामरस्तोत्रम् जरणं-पूवनं वैरानुरा-व्याकुला ये योधाः-सुभटास्तैर्भीमं तस्मिन् , तथा जेतुं योग्या जेयास्तेषां पक्षा जेयपक्षा, दुर-दुःखेन जीयन्ते इति दुर्जयास्ते च ते जेयपक्षाश्च दुर्जयजेयपक्षाः, विजिता दुर्जयजेय. पक्षा यैस्ते विजितदुर्जयजेयपक्षाः । अत्र 'क्षय्यजय्यौ' (अ० ४, पा० ३, सू० ९०) इति हैमसूत्रात् जय्य इति स्यादेवं न चिन्त्यं, जेतुं शक्यो जय्यः शत्रुरिति शक्यार्थविषयत्वात् तस्य, अत्र तु जेतुं अशक्यानामपि पक्षाणां विजयस्य वाच्यत्वात् अत एव दुर्जय इति विशेषणं युक्तमिति न तथा ॥ (अथ समासाः)-तव पादौ त्वत्पादो, पाजायन्त इति पङ्कजानि, तेषां वनं-पङ्कजवनं, त्वत्पादावेव पङ्कजवनं त्वत्पादपङ्कजवनं, तत् आश्रयन्ते इत्येवंशीला: त्वत्पादपङ्कजवनायिणः । इति काव्यार्थः ॥ ३९॥ Those who take shelter under the lotus-grove of Thy feet gain victory by vanquishing the unconquerable enemies in the war which is horrible on account of the warriors being impatient to cross the powerful streams of blood gushing forth from ( the temples of) the elephants pierced by the pointed ends of lances. (39) अथ जलापदं प्रशमयन्नाह अम्भोनिधौ क्षुभितभीषणनकचक्र पाठीनपीठमयदोल्बणवाडवाग्नौ । रगत्तरङ्गशिखरस्थितयानपात्रा स्वासं विहाय भवतः स्मरणाद व्रजन्ति ॥ ४०॥ गु० वि०-हे भववार्धिपोत ! अम्भोनिधौ-समुद्रे एवंविधे सति सांयात्रिका जना भवतः स्मरणात् त्रासम्-आकस्मिकं भयं विहाय-त्यक्त्वा व्रजन्ति-क्षेमेण स्वस्थानं यान्ति । किंभूते? क्षुमितानि-क्षोभं गतानि भीषणानि-रौद्राणि नकचक्राणि च पाठीनाश्च पीठाश्च भयदो-भीकृदुल्बणः-प्रकटो वाडवाग्निश्च यत्र स तथा तस्मिन् । किंभूता जनाः? रङ्गत्तरङ्गशिखरस्थितयानपात्रा:-उच्छलत्कलोलायवर्तिवाहनाः। नकचक्रं-दुष्टजलजन्तुवृन्दम्। पाठीनपीठी-मत्स्यभेदौ । वडवाग्निः-वडवानलः । इति वृत्तार्थः ॥ ४०॥ प्रभायोदाहरणं यथा 'तामलिप्ती'पुरीवासी, धनावहवणिग्वरः। ....... क्षुब्धेऽब्धौ देवतातुष्ट्या, श्रेयसा पुरमीयिवान् ॥१॥-अनु० - धनकनकवसनरत्नसपत्नीकृतालकायां नन्दनवनासहनीभूतारामाभिरामायां देवीरूपसरूपनागरिकरामायां श्रीसञ्चयमालिन्यां 'तामलिप्यां' पुरि बहुधनो धनावहनामा श्रेष्ठी। सोऽन्यदा श्रीजिनेश्वरसूरिदेशनामशृणोन्मसृणमनाः। यथा जिनेश्वरदेशनां' इति ख-पाठः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy