SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् ५९ वीक्षितेन किं स्यादिति सम्बन्धः । स्यात्' इति क्रियापदम् । किं कर्तृ ? 'कि' हर्षकारणं विशेषतः । केन ? 'भवता' त्वया। किंविशिष्टेन ? 'वीक्षितेन' दृष्टेन । तत् कथमित्याह-येन कारणेन भवान्तरेऽपि न अन्यः कश्चिन्मनो हरति-वशीकुरुते इत्यन्वयः । 'हरति' इति क्रियापदम् । कः कर्ता ? 'कश्चित् अन्यः' अपरो देवनाथोऽपि । किं कर्मतापन्नम् ? 'मनः' चित्तम् । कस्मिन् ? 'भवान्तरेऽपि' परभवेऽपि, त्वत्तोऽधिकसौन्दर्यादिगुणवतस्त्रैलोक्येऽपि अभावादिति भावः ॥ . समासा यथा-मन्ये इत्यव्ययं तिबन्तप्रतिरूपकम् । हरिश्च हरश्च हरिहरी, तौ आदी येषां ते हरिहरादयः । एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन् , मयूरव्यंसकादित्वात् समासः । दृष्ट्वा भवन्तमित्यादिना काव्येनास्य पौनरुक्त्यं न ज्ञेयं, निन्दास्तुतित्वेन विषयभेदादिति काव्यार्थः ॥२१॥ He summarizes the result of seeing Hari and the like. I believe that it was for the better that (first of all)I verily saw Hari, Hara and the like; (for) as I have already seen them, my heart gets complete satisfaction on seeing Thee. What has been the result of seeing Thee? (The reply is that) oh Lord, no one else in this world will be able to divert my mind from Thee even in the next birth. (21) किञ्च स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि . प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ गु० वि०-हे चतुर्दशस्वमसूचितचतुर्दशभुवनाधिपत्य ! स्त्रीणां-नारीणां शतानिबहुवचनत्वात् कोटीकोव्यः शतशः-कोटिकोटिसंख्यान पुत्रान् जनयन्ति-प्रसुवते । तासु मध्येऽन्या-अपरा जननी-माता त्वदुपम-भवत्समं सुतं-नन्दनं न प्रसूता-नाजीजनत् । त्वां पुत्रं मरुदेव्येव प्रासूत। अत्रोपमा-सर्वा दिशः-अष्टौ काष्ठाः भानि-नक्षत्राणि तारकाणि दधति-धारयन्ति, (परन्तु) प्राच्येव-पूर्वैव दिक् स्फुरदंशुजालं-चञ्चत्करकलापं सहस्ररश्मि-सूर्य जनयति-प्रसूते । यथा ऐन्द्री दिक् सूर्योदये हेतुः, तथा तीर्थकृजन्मनि मरुदेव्यादय एव हेतुः। इति वृत्तार्थः ॥२२॥ प्रभावे कथा श्रीआर्यखपुटाचार्य-यक्षो वृद्धकराभिधः । स्कन्द-रुद्र-गणेशाद्यैः, सहितो दर्शितो नतः ॥ १॥-अनु० १ 'मयूरव्यंसकादयश्च' इति पाणिनीये (२।११७२)। २ 'भानि-तारकाणि' इति क-पाठः । ३ 'सर्वादिशो' इत्यपि पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy