SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अथ निन्दास्तुतिमिश्रमाह श्रीमानतुङ्गसूरिविरचितम् मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोपमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ गु०वि० - हे सर्वोत्कृष्ट ! देवोत्तम ! प्रभावनाथ ! हरिहरादय एव दृष्टा - विलोकिता वरं- प्रधानमित्यहं मन्ये । येषु सुरेषु दृष्टेषु हृदयं चित्तं त्वयि भवद्विषये तोष-प्रमोदमेति - आयाति । यतस्तैर्हि तव मुद्राऽपि नाभ्यस्ता, ज्ञानं दूरे । उक्तं च 1 Jain Education International " वपुश्च पर्यङ्कशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ॥ १ ॥ - उपजातिः -- ( अयोगव्यवच्छेदद्वात्रिंशिकायां श्र० २० ) अतोऽपरसुरदर्शनादेव त्वयि भक्तिस्तैलाशनादाज्ये यथा प्राज्यादर इति । अथ भवता वीक्षितेन दृष्टेन किं कार्यं येनार्हद्वीक्षणलक्षणेन हेतुनाऽन्यः - त्वदपरः कश्चिद् देवो भवान्तरेऽपि - अन्यजन्मन्यपि भुवि - लोके मनो न हरति- मानसं न गृह्णाति । यतः सर्वगुणो भवांस्तथाविधभव्यानां चित्तहरणं कुरुते । अन्ये सुरा रागद्वेषविसंस्थुलाङ्गत्वात् ज्ञानविकलत्वाच्च न मनोहरणं प्रति कारणम् । उक्तं च “सर्वे सर्वात्मनाऽन्येषु, दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवे यं चेन्मिथ्या, तत्प्रमाणं सभासदः ॥ १ ॥ " - अनु० अन्यभवे चित्ततोषः श्रेयांसादेरिव । तद् यथा - ५५ "साधिकवर्षं चतसृषु, दिक्षु बहल्यादिमण्डलानि विभुः । व्यहरन्मुक्ताहारो, मुनिभिक्षामूर्खमनुजवशात् ॥ १ ॥ अवनिं पावं पावं, निरशनपानो जिनेश्वरो वृषभः । निजचरणक्रमणेना-शनाय गजपुरमगादग्लानः ॥ २ ॥ श्रीबाहुबलितनूजः, सोमयशाः सद्यशा नृपस्तत्र । रूपनिधिर्वृषभांसः, श्रेयांस स्तत्कुमारवरः ॥ ३ ॥ स्वमे च निशाशेषे, कज्जलकालः सुमेरुगिरिराजः । मयका सुधाभिषिक्तः, स्वरुचिं प्रापेति सोऽपश्यत् ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy