SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् मे० वृ०-अथ भगवद्वर्णने जगति तन्मयत्वं पश्यन्नित्याह-(किं शर्वरेत्यादि)। .. हे नाथ ! शर्वरीषु शशिना किं कार्य भवति ? अथवा अह्नि विवस्वता-सूर्येण किं कार्य भवति ? इति वाक्यद्वयम् । 'भवति' इति क्रियापदम् । किं कर्तृ ? 'कार्यम्' । केन ? 'शशिना' चन्द्रेण । कासु ? 'शर्वरीषु' रात्रिषु । 'वा' अथवा । केन ? 'विवस्वता' सूर्येण । कस्मिन् ? 'अहि' दिवसे । उभाभ्यामपि न किञ्चित् कार्यमिति भावः। केषु सत्सु ? 'तमस्सु युष्मन्मुखेन्दुदलितेषु' सत्सु, तमस्सुअन्धकारेषु युष्माकं वदनचन्द्रेण पराकृतेषु सत्सु । अत्र दृष्टान्तमाह-हे नाथ! जलधरैः कियत् कार्य भवति इत्यन्वयः। 'भवति' इति क्रियापदम् । किं कर्तृ ? 'कार्यम्' । किंविशिष्टं कार्यम् ? 'कियत्' किंपरिमाणम् , स्तोकमपि कार्य नैवेत्यर्थः। कैः करणैः ? 'जलधरैः' । किंवि० जलधरैः ? जलभारनः' अतीव जलभृतैः । कस्मिन् सति ? 'जीवलोके' प्रत्यक्षे मर्त्यलोके 'निष्पन्नशालिवनशालिनि' सम्पन्नधान्यक्षेत्रैः शोभमाने सति । धान्येषु निष्पन्नेषु न मेघप्रयोजनम् , तथा त्वन्मुखप्रभाप्रकाशिते जगति न चन्द्रेण सूर्येण (वा) कार्यमिति भावः । अत्र मुखप्रकाशेन सूर्याचन्द्रमसोर्यद्यपि वस्तुतो न निरर्थकत्वं तथापि कवेस्तथाभावोल्लासान दोपः, "तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा तदा । तनोति भानोः परिवेषकैतवात् तदा विधिः कुण्डलनां विधोरपि ॥ १॥"-वंशस्थम् इति नैषधीय (स० १, श्लो० १४)वचनात् । तथा हे नाथ! इत्यत्रैकवचनेन युष्मन्मुखेन्दु० इत्यत्र बहुत्वेन असङ्गतिस्तथापि "सुता न यूयं किमु तस्य राज्ञः" इति महाकाव्येषु एकस्मिन्नर्थेऽपि बहुत्वस्य युक्तत्वान्न दुष्टम् ॥ समासास्तु-शशः अस्यास्तीति शशी, तेन । विवस-ओजो अस्यास्तीति विवस्वान् , तेन । मुखमेव इन्दुर्मुखेन्दुः, युष्माकं मुखेन्दुर्युष्मन्मुखेन्दुः, तेन दलितानि युष्मन्मुखेन्दुदलितानि, तेषु । शालीनां वनानि शालिवनानि, निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि, तैः शालते-शोभते इत्येवंशीलो निष्पन्नशालिवनशाली, तस्मिन् । जीवानां लोको जीवलोकः, तस्मिन् । जलानि धरन्तीति जलधराः, तैः। जलानां भारो जलभारः, नमनशीला नम्राः, जलभारेण नम्रा जलभारनम्राः, तैः । शशिनेत्यादौ तृतीया किमित्यव्यययोगात् ॥ इति काव्यार्थः ॥ १९॥ What is the use of the Moon at night and what use is there of the Sun by day, when on Lord! Thy Moon-like face destroys darkness (of ignorance ) ? What necessity is there of the clouds surcharged with water (lit, bent down by the burden of water ), when the (mortal) world is (already) resplendent with the fields of the fully grown S'āli rice? ( 19 ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy