SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् Thy lotus-like face shines like the disc of an extraordinary Moor; for, it has a perpetual rise (as it never sets), has destroyed the pitchy darkness of infatuation, is never within the reach of Rāhu or clouds, possesses immense lustre and illuminates the world. (18) किञ्च किं शर्वरीषु शशिनाऽह्नि विवस्वता वा ? __ युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ! । निष्पन्नशालिवनशालिनि जीवलोके ___ कार्य कियजलधरैर्जलभारननैः? ॥ १९ ॥ गु०वि०-हे नाथ! शर्वरीषु-रजनीषु शशिना-चन्द्रेण किम् ? । अह्नि-दिवसे विवस्वतासूर्येण वा किं कार्य भवति ? तमस्सु-अन्धकारेषु युष्मन्मुखेन्दुदलितेषु-भवद्वदनचन्द्रविनाशितेषु सत्सु । अथ(वा) तमस्सु-पातकेषु । अत्र दृष्टान्तः-जीवलोके-भूपीठे निष्पन्न शालिवनशालिनि सति जलभारनप्रैः-सलिलभरनतैर्जलधरैः-घनैः कियत् कार्य स्यात् ? । न किमपीत्यर्थः । निष्पन्नैः-पाकं प्राप्तः शालिवनैः-कलमादिकेदारैः शालते-शोभत इत्येवंशीलः तस्मिन् निष्पन्नशालिवनशालिनि । यथा तृणवल्लीधान्यादिषूत्पन्नेषु मेघाः केवलक्लेशकर्दमशीतहेतुत्वात् निष्फला एव, तथा त्वन्मुखेन्दौ ध्वस्तदुरिततिमिरे शैत्यसन्तापपीडाकारित्वाच्चन्द्रसूर्याभ्यां न कोऽप्यर्थः सिद्धः । यत आगमेऽपि चोक्तम् "चंदाइच्चगहाणं, पहा पयासेइ परिमियं खित्तं । केवलियं पुण नाणं, लोयालोयं पयासेइ ॥ १॥"-आर्या इति वृत्तार्थः ॥ १९॥ अत्र मन्त्रः ॐ हीं पूर्व मणपजवनाणीणं सीयलेसाणं तेउलेसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं नमः स्वाहा ॥ अशिवोपशमनी विद्या ॥ , आवश्यकनियुक्तौ लोगस्साधिकारे । २ छाया चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । कैवलिकं पुनानं लोकालोकं प्रकाशयति ॥ . ३ 'केवलियनाणलंभो, लोया०' इति क-पाठः । भ०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy