SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् हि दीपो धूमवर्तियु, तैलपूरसहितः, किञ्चित्स्थानभागस्य प्रकाशकः, अन्यच्च मरुतां-वातानां गम्योविनाश्यः स्यात् ; त्वं तु एतादृशो नासि, तथापि “लोगपईवाणम्” (शक्रस्तवे) इत्यागमिकैः स्तूयसे । पुनः किं० त्वम् ? 'जगत्प्रकाशः' भुवनावभासी॥ । समासा यथा-धूमश्च वर्तिश्च धूमवर्ती, धूमवर्तिभ्यां निर्गतः निर्धूमवर्तिस्तत्पुरुषः, 'प्रात्यवः' इति (अ० ३, पा० १, सू० ४७) सिद्धहैमसूत्रात् समासः, तैलस्य पूरस्तैलपूरः, अपवर्जितस्तैलपूरो येन सः अपवर्जिततैलपूरः । जगतां त्रयं जगत्रयम् । अप्रकटं प्रकटं करोषि प्रकटीकरोषि, अभूततद्भावे विप्रत्ययः। गन्तुम) गम्यः। चलिता अचला येन ते चलिताचलास्तेषाम् । जगत्सु प्रकाशो यस्य स जगत्प्रकाशः । अत्र केषाञ्चिन्नेत्रोपनेत्रादीनां वस्तुप्रकटताकारित्वेऽपि न तादृक् प्रकाशकत्वं भावतोऽपि श्रुतज्ञानिनां जगत्प्रकटताकारित्वेऽपि न केवलप्रकाशवत्त्वम् , भगवति तु जगत्प्राकट्यहेतुत्वं केवल. ज्ञानित्वेन जगत्प्रकाशकत्वमित्युभयमस्तीति न पुनरुक्तिः, यद्वा स्तुतौ तस्या न दोष इति बोध्यम् ॥ इति षोडशकाव्यार्थः ॥ १६ ॥ He hereby illustrates that God cannot be described in the light of the usucal standards of comparison. ___Oh Lord! Thou art the supernatural lamp, the light of the world-the lamp which is free from smoke (of aversion), wherein there is no wick (of lust), which does not require to be filled up with oil (of attachment), which completely illumines the three worlds ( in virtue of omniscience) and which is unassailable by the winds (or gods) that move the mountains. (16) अथ सूर्येणौपम्यनिरासायाह नास्तं कदाचिदुपयासि न राहुगम्यः _ स्पष्टीकरोषि सहसा युगपजगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ गु० वि०-हे मुनीन्द्र !-मुमुक्षुप्रभो ! लोके-भुवने त्वं सूर्यातिशायिमहिमा असिवर्तसे । सूर्यादतिशायी-सविशेषः-अपूर्वो महिमा-माहात्म्यं यस्य सः । यतो रविरस्तं प्रयाति राहुणा परिभूयते लक्षमात्रं विश्वं प्रकाशयति मेघच्छन्नो निस्तेजाश्च स्यात् । त्वं तु अपूर्वः पूषा कदाचिद् रजन्यादौ नास्तमुपयासि-क्षयं न गच्छसि, केवली नक्तंदिवं-सदाऽऽलोकः, न राहुगम्यः-न सैहिकेयग्रसनीयः। अथ राहुशब्देन कृष्णवर्णत्वाद् दुष्कृतं न १ लोकप्रदीपेभ्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy