SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् हैमकोषः (का० ६, श्लो० १७२) । अत्रार्थे सन्देहपूर्वकं दृष्टान्तालङ्कारेण उपमां योजयति-कल्पान्तकालमरुता किं मन्दराद्रिशिखरं कदाचिच्चलितम् ? अपितु न चलितमित्यन्वयः । 'चलितम्' इति क्रियापदम् । किं कर्तृ ? 'मन्दरादिशिखरं' मन्दरनाम्नः पर्वतस्य शृङ्गम् । केन करणेन ? 'कल्पान्तका. लमरुता' युगान्तवायुना । करणे तृतीया, 'गत्यर्था०' (सा० सू० १२७१) इति सूत्रेण, गत्यर्थाकमकपिबभुजेः' इति हैम(अ०५, पा० १, सू० ११)सूत्रेण चलधातोर्गत्यर्थत्वेन कर्तरि क्तप्रत्ययः प्राप्तः । कथंभूतेन कल्पान्तकालमरुता? 'चलिताचलेन' कम्पितान्यपर्वतेन । यथा कल्पान्तवातेन मेरुशिखरं कदाचिदपि-कस्मिन्नप्यवसरे न क्षोभमेति, तथा सवापि मनो देवीमिर्न योगमार्गात् क्षोभितमित्यर्थः॥ समासा यथा-त्रिदशानां अङ्गनाः त्रिदशाङ्गनास्ताभिः । विकारस्य मार्गः विकारमार्गस्तम् । कल्पस्य अन्तः कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य मरुत् कल्पान्तकालमरुत् तेन । चलिता अचला यस्मात् स चलिताचलस्तेन । मन्दरश्वासौ अद्रिश्च मन्दराद्रिः, तस्य शिखरं मन्दरादिशिखरम् । कस्मिन् काले कदा, सामान्ये चित्प्रत्ययः । अत्र मरुतेत्यत्र कर्तरि तृतीया, तथा चलिता अचला येनेति अन्तर्भूतण्यन्तविवक्षया तृतीयाबहुव्रीहिणा व्याख्या कोशल्यां वर्तते । इति पञ्चदशकाव्यार्थः ॥ १५ ॥ He describes God's complete mastery over passions. What is there to wonder at, if the celestial nymphs could not divert Thy mind towards the path of passions even in the least? Can the peak of the Manda ra (Meru) mountain be ever moved by the wind blowing at the time of the destruction of the universe-the wind which shakes the other mountains? 15 अथ भगवतो दीपेनोपमानिरासमाह निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः॥ १६॥ . दृष्टान्तालद्वारस्य लक्षणम् "अम्बपल्यापन यन्त्र, क्रियया सतदर्थयोः । रटान्तं समिति प्राहु-रलकार मनीषिणः ॥" -वाग्भटा० (१०४, सो०२) २ कुशलपाखाम्तर्गतसूरिसूत्रितवृत्तावित्यर्थः, एष एव चामिपाका प्रामपि काव्यवृत्तावेतपादे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy