SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भक्तामर स्तोत्रम् He praises God's face. Where is Thy face which attracts the eyes of the celestials, the human beings and the serpent-gods and which far excels all the standards of comparison to be found in the three worlds? And where is the disc of the moon which is stained with a blot and which grows pale-white like a leaf of the Palas'a trea by day - break?-13 अथ च गुणव्याप्तिमाह ३६ 骂 点 法 सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रिताखिजगदीश्वर ! नाथमेकं कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ ०वि० - हे त्रिजगदीश्वर ! - त्रिजगन्नाथ ! तव गुणाः- क्षमावैराग्यादयस्त्रिभुवनं लङ्घयन्ति - अतिक्रामन्ति, त्रिलोकीमाक्रम्य तिष्ठन्तीत्यर्थः । किंभूताः ? सम्पूर्णमण्डलः- आश्विनपूर्णिमासम्बन्धी शशाङ्कः- चन्द्रस्तस्य कलाकलापः - करनिकरस्तद्वच्छुवा - धवलाः । विश्वव्यापे हेतुं दर्शयन्ति । ये गुणा एकं नरान्तरपरिहारेण अद्वितीयं नाथं संश्रिताः - अशिश्रियन् । कः पुरुषो यथेष्टं - स्वेच्छया सञ्चरतः - परिभ्रमतः तान् गुणान् निवारयति - निषेध - Jain Education International अपितु न कश्चन । त्रिजगदपि भवद्गुणग्रहणपरायणं दृश्यते । तथाच समर्थे प्रभौ सति सेवाश्रितानां सर्वत्र प्रचारो युक्त एव । अथ त्रिजगदीश्वरनाथं सम्पूर्णपदं त्रिजगदीश्वराणां सुरेन्द्रनरेन्द्रचमरेन्द्रादीनां नाथं परमपदप्राप्तौ योगक्षेमकारित्वात् । इति वृत्तार्थः ॥ १४ ॥ अथ मन्त्रः ॐ ह्रीं आसीविसलद्धीणं ॐ ह्रीं खीरासवलद्धीणं ॐ ह्रीं महुयासवलद्धीणं ॐ ह्रीं अमिआसवलीणं नमः स्वाहा । विषापहारिणी विद्या ॥ अथवा ॐ ह्रीं श्रीं ह्रीं अतिआउसा बुलु बुलु कुल कुलु मुलु मुलु इच्छियं मे कुरु कुरु स्वाहा ॥ त्रिभुवनस्वामिनी विद्या सर्वसमीहितदा ॥ महिमकथा सत्यकस्य कनी डाही, भृगुकच्छेऽथ सुव्रतम् । उपोषिता सर्ज दिव्यां, लब्ध्वा जिनमपूजयत् ॥ १ ॥ - अनु० श्रीअणहिलवाट पत्तने सत्यकः श्रेष्ठी । तस्य गुरवः श्रीहेमचन्द्राचार्याः । सत्यकस्म सकलकलाभिर्यथार्थनामधेया डाहीति कन्याऽभूत् । अष्टवार्षिकी सा पश्चासरश्रीपार्श्वनाथं गुरुं नमस्कृत्याऽभुङ्क्त । शुचिर्भक्तामरस्तवं त्रिसन्ध्यं ध्यायति स्म । श्रेष्ठिना कन्या भृगुकच्छे १ 'वरनाथ' इत्यपि पाठः । २ 'व्यापि' इति क- पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy