SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भक्तामर स्तोत्रम् यस्मात् कारणात् ते - तव समानं अपरं रूपं हि - निश्चितं न अस्ति इत्यन्वयः । ' अस्ति' इति क्रियापदम् । किं कर्तृ ? 'रूपम्', आकृतिविशिष्टः पिण्डः । किंविशिष्टं रूपम् ? 'समानं' तुल्यम् । कस्य ? 'M तव । यदि च त्वदेहनिर्माणहेतुपरमाणुभ्योऽधिका अणवो भवेयुस्तर्हि तन्निर्मितमन्यदपि रूपं भवेत्, न चैतदस्ति, तस्मात् ते अणवोऽपि तावन्त एवेत्यनुमानालङ्कारः ॥ समासा यथा - त्रयाणां भुवनानां समाहारस्त्रिभुवनं, पात्रादित्वान्न ईपू, द्विगुसमासः, एक'च तल्ललाम च एकललाम, त्रिभुवने एकललाम त्रिभुवनैकललाम, त्रिभुवनैकललाम्नो भूत:तुल्यस्त्रिभुवनैकललामभूतः, भूतशब्द उपमार्थे, तस्यामन्त्रणे हे त्रिभुवनैकललामभूत ! | रागस्य रुचिः रागरुचिः, शान्ता रागरुचिर्येषु ते शान्तरागरुचयस्तैः यद्वा शान्तो नाम नवमरसस्तस्य रागः-परमा प्रीतिस्तस्य रुचिर्येषु ते तथा तैः । परमाश्च ते अणवश्च परमाणव स्तैर्निर्मापित इत्यत्र ण्यन्तत्वेन परमाणुभिरित्यत्र करणे तृतीयाव्याख्यानादीश्वर कर्तृकत्वं यद्यप्याक्षे पाल्लभ्यते, तथापि संवाहयतीत्यादिषु स्वार्थेऽपि ण्यन्तत्वस्य उचितत्वात् तत्तद्द्द्रव्यक्षेत्र कालभावानां साचिव्येनैव कार्यद्रव्योपपत्तेरीश्वरकल्पनाया अन्यथासिद्धत्वाश्च, अत एव शान्तरागरुचिभिरित्यत्र न ण्यन्तत्वम्, ईश्वरकर्तृत्वे तु तत्रापि व्यन्तत्वप्रसङ्गादित्यन्यत्र विस्तरः । ललामेति तिलकस्थानीयं माल्यं ललाम उच्यते । "प्रभ्रष्टकं शिखालम्बि पूरोन्यस्तं ललामकं" ( अभि० का० ३, श्लो० ३१६ ) इति श्रीहेमसूरयः । “ललाम च ललामं च, लाम्बनध्वजवाजिषु । मृगे प्रधाने भूषायां रम्ये वालधिपुङ्खयोः ॥ १ ॥” इति विश्वः । इति द्वादशवृत्तस्यार्थः ॥ १२ ॥ He describes God's beauty. Oh unique ornament of the forehead of the three worlds! Certainly, in the universe there are only as many atoms possessing the sentiment of quietude as Thou art formed of; for, there is no other (being having) elegance like Thine. 点 減 竑 अथ मुखवर्णनमाह वक्रं क ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ गु०वि०-अत्र कशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते तव वक्रं -सकलमङ्गल Jain Education International 1 अनुमानालङ्कारस्य लक्षणम् “हेतोः साध्यावगमोऽनुमानम् " - काव्या० (अ० ६ ) For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy