SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् He mentions the prowess of God's narration. Let Thy psalm which has destroyed all faults be out of consideration, since even the narration of Thy life annihilates the sins of the universe. Leave aside the case of the Sun, when (even ) its light alone opens the lotuses lying in the lakes. ( 9 ) आई 竑 X अथ जिनस्तुतिसेवा फलमाह - ( ग्रं० ३०० ) नात्यद्भुतं भुवनभूषणभूत ! नाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ गु०वि० - हे भुवनभूषणभूत ! भूतशब्द उपमावाची, हे विश्वमण्डनसमान ! नाथ ! -प्रभो ! भूतैः-जातैः- विद्यमानैर्गुणैर्भुवि - पृथिव्यां भवन्तं - त्वामभिष्टुवन्तः - स्तुवन्तो जना भवतः - तव तुल्याः - समा भवन्ति एतन्नात्यद्भुतं नातिचित्रम् । अत्र व्यंतिरेकमाह - ननु - निश्चितं वा अथवा तेन स्वामिना किं कार्यं किं प्रयोजनम् ? इह भवे जनमध्ये वा यः स्वामी आश्रितं - सेवकं भूत्या - ऋज्या आत्मसमं - निजतुल्यं न करोति-न विधत्ते । अहमपि तीर्थकरं स्तुवन् जिनध्यानैकतानमानसत्वेन तीर्थकृगोत्रार्जको भवितेति कवेराशयः ॥ अत्राम्नायः श्रीऋषभप्रभुः त्र्यशीतिपूर्वलक्षणानि गार्हस्थ्येऽस्थात् । पुत्रशतं देशशतराज्ये न्यधात् । विनीतापुरे ज्येष्ठतं भरतं न्ययुङ्क्त । विरक्तो भोगान्नाभुङ्क । याचकेभ्यः सांवत्सरिकदानं प्रादत्त । चतुर्भी राजन्यक्षत्रियसहस्रैः सत्रा व्रतमादत्त । शक्राभ्यर्थनया चातुर्मुष्टिकं लोचमकरोत् । कच्छ महाकच्छादयस्तथैवाकार्षुः । मौनी चावनीं विजहार । शुद्धभिक्षानभिज्ञो जनोऽशनं न विततार । प्रभोः पुरः कनक- किरीट- कटक कन्या -करिकिशोर- कम्बल - कौशेयादि दधुस्ते, तेष्वकल्प्यतया भगवान् न किमपि जग्राह । तूष्णीक एव प्रतिज्ञामुवाह । क्षुधिताः कच्छादयो विमृश्य स्वर्धुनीतीरे कन्दफलाशनास्त्रपाभरादकृतग्रहगमना वर्धितासंस्कृतालकत्वाज्जटिलास्तापसा अभूवन् ॥ इतश्च नमिविनमी राजपुत्रौ कार्यवशाद् दूरदेशं प्राप्तावायातौ, कच्छमहाकच्छयोनिजपित्रोरमिलताम्, सर्व वृत्तान्तमलभेताम् । तावापृच्छ्य भरतेऽवहीलनां धृत्वा श्रीम १'०षण ! भूतनाथ !' इत्यपि पदच्छेदः समीचीनः । रेक-लक्षणम्---- “उत्कर्षापकर्षहेत्वोः साभ्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः " - काव्या० (अ० ६) २७ ३ पट्टकूलादि । ४ 'किमपि न जग्राह' इति ख- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy