SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् चारुचूतकलिकानां निकरः चारुचूतकलिकानिकरः, एकञ्चासौ हेतुश्च एकहेतुः, चारुचूतकलिकानिकर एव एकहेतुः चारुचूतकलिकानि करैकहेतुः, 'समासश्चान्वये नान्नाम्' (सा० सू० ४६६) इति समासः । यदित्यत्र द्वितीयैकवचनं, वाक्यार्थमात्रवाचित्वे तु प्रथमाऽपि सम्भवति, तच्छन्दाग्रे चूतस्य पूर्वोक्तपरामर्शित्वेन प्रथमा, व्याख्यानान्तरेण सप्तम्यपीति, यत्तच्छन्दावव्ययावनव्ययौ च वर्तेते इति श्रीविजयसेनसूरिप्रश्नोत्तरग्रन्थे । विरौतीत्यत्र 'रु शब्दे' धातुः 'युतुरुस्तुभ्य ईर्वा उर्वा विरौति विरवीति इति रूपद्वयम् ॥ इति षष्ठकाव्यार्थः ॥ ६ ॥ He mentions the reason for praying to God. It is my devotion to Thee that compels me to prattle-me, who am an object of ridicule to the scholars on account of my possessing little knowledge. That the cuckoo sings sweet songs in the spring is solely due to (the presence of) the charming bunches of mango-sprouts. (6) ॐ हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं 30 X पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ गु०वि० - हे सकलपातकनाशन ! जिन ! त्वत्संस्तवेन - भवद्गुणोत्कीर्तनेन शरीरभाजां - प्राणिनां भवसन्ततिसन्निबद्धं - जन्मकोटिसमर्जितं पापम् - अष्टविधं कर्म क्षणाद्घटिकाषष्ठांशेन स्तोककालाद् वा क्षयमुपैति - नाशमुपयाति । भगवत्स्वरूपध्यानादू देहिनां साम्यं भवति । साम्यादुक्तपापक्षयो युक्तः । उक्तं च Jain Education International १९ " प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्ती - तपसा जन्मकोटिभिः ॥ १ ॥ " - अनु० अमुमेवार्थमुपमिमीते - पापं किमिव ? अन्धकारमिव । यथा शार्वरं - कृष्णपक्षरात्रिजं तेमिरं सूर्यांशुभिन्नं - सहस्रकररोचिर्विदारितं आशु शीघ्रं क्षयं गच्छति यतः । किंभूतमन्धकारम् ? आक्रान्तलोकं - व्याप्त विश्वं अलिनीलं - मधुकरकुलकृष्णं अशेषं सकलं न तु स्तोकम् । पापविशेषणान्यप्यौचित्येन कार्याणि । यथा दुरितक्षयहेतुर्जिनस्तवः, तथा तिमि - नाशहेतुः सूर्योदय इति । १ 'तुरुनुस्तुभ्योऽद्विरुक्तेभ्यो हसादीनां चतुर्णामीडा' इति सारस्वते (सू० ८९२) । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy