SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् इत्यन्वयः। 'स्यात्' इति क्रियापदम् । कः कर्ताः ? 'कः' पुरुषः । कथंभूतः कः ? 'अलं' समर्थः । किं कर्तुम् ? 'तरीतुं' पारं प्राप्नुम् । के कर्मतापन्नम् ? 'अम्बुनिधि' समुद्रम् । काभ्याम् ? 'भुजाभ्याम्' । कथंभूतं अम्बुनिधिम् ? 'कल्पान्तकालपवनोद्धतनकचक्रं' युगान्तसमयवायुना उद्धता-अत्यन्तभीषणा उच्छलन्तो नक्रा-मत्स्याः चक्राः-चक्राकारजीवविशेषा यस्मिन् स तथाभूतं, यद्वा नक्राणां चक्राणि-समूहा यस्मिन्नित्यपि योज्यम् । यथा समुद्रो भुजाभ्यां तरीतुं दुष्करस्तथा तव गुणा अप्यपारत्वाद् वर्णयितुं दुःशकाः, अत एव गुणसमुद्र इति संवोधनं युक्तमिति भावः ॥ अथ समासाः-गुणानां समुद्र इव समुद्रो गुणसमुद्रः, तत्संबोधनं हे गुणसमुद्र ! कर्मधारयः उपमितसमासः। शशः अङ्के-उत्सङ्गे यस्य स शशाङ्कः, कविप्रसिद्धिरियं, शशाङ्कवत् कान्ताः शशा कान्तास्तान , मध्यपदलोपी समासः।सुराणां गुरुः सुरगुरुः, सुरगुरोः प्रतिमेव सुरगुरुप्रतिमः। कल्पस्य अन्तः कल्पान्तः, कल्पान्तश्चासौ कालश्च कल्पान्तकालः, कल्पान्तकालस्य पवनः कल्पान्तकालपवनः, कल्पान्तकालपवनेन उद्धताः कल्पान्तकालपवनोद्धताः, नक्राश्च चक्राश्च नक्रचक्राः, कल्पान्तकालपवनोद्धता नक्रचका यत्र स तम् । अलमित्यव्ययं सामर्थ्ये । अम्बूनि नितरां धीयन्ते अस्मिन्निति अम्बुनिधिस्तं, 'नाम्नश्च०' (सा० सू० ५३९) इति समासः । भुजाभ्यामित्यत्र करणे तृतीया । प्रवहणादिना अम्बुनिधिः सुतरः, न पुनर्भुजाभ्यां इत्यतिशयालंकारः । तरीतुमित्यत्र 'ईटो ग्रहाम्' (सा० सू० ८२१) इति दीर्घः ॥ इति (चतुर्थ)काव्यार्थः ॥ ४॥ He points out the incompetence of even others in singing the merits of God: Oh ocean of virtues! Is even he who equals Brihaspati (the preceptor of gods) in knowledge capable of enumerating Thy merits that are charming like the moon ? Who would be able to swim by means of his hands the ocean in which multitudes of crocodiles (or Nakras and Chakras) are stirred up by the hurricane blowing at the time of the destruction of the universe (Kalpánta). ? (4) अथ स्तवकरणप्रवृत्तौ कारणमाह सोऽहं तथापि तव भक्तिवशान्मुनीश! __ कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ १ अतिशयोक्ति-लक्षणम्"विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः" -काव्या० (अ०६). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy