SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ( ७५ ) प्रकृतयोजनमाह। घातिकाभ्रकल्प तदुक्तयोगानिलाहतेः। यदापैति तदा श्रीमान् जायते ज्ञानकेवली ॥१८२॥ घातिकर्म ज्ञानावरणीयादि । तथा । ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयं, अन्तरायं चेति । एतदभ्रकल्पं वर्तते तद्धातिकर्मोक्तयोगानिलाहतेरनन्तरोदितयोगवायुघातादित्यर्थः । यदापैति श्रेणिपरिसमाप्तौ तदा श्रीमानसौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली सर्वज्ञ इत्यर्थः ॥ __ अत एवाह । क्षीणदोषो ऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थे संपाद्य ततो योगान्तमश्नुते ॥ १८३ ॥ क्षीणदोषः सकलरागादिपरिक्षयेण । अथ तदैव । सर्वज्ञो निरावरणज्ञानभावेन सर्वज्ञ इत्यर्थः । सर्वलब्धिफलान्वितः सर्वोत्सुक्यनिवृत्त्या । परं परार्थ संपाद्य यथाभव्यं सम्यक्त्वादिलक्षणम् । ततो योगान्तमश्नुते योगपर्यन्तमानोति । तत्र दागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ॥ ८४॥ तत्र योगान्ते शैलेश्यवस्थायां दागेव' शीघ्रमेव इस्वपञ्चाक्षरोगिरणमात्रेण कालेन भगवानसावयोगादव्यापाराद्योगसत्तमाद्योगमधानात् , शैलेशीयोगादित्यर्थः । किमित्याह "भवव्याधिक्षयं कृत्वा" १C omits सर्वज्ञ इत्यर्थः २० प्रागेव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy