SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) इहैव व्यतिरेकमा । श्रुताभावे ऽपि भावेऽस्याः शुभभावप्रवृत्तितः। फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४॥ _श्रुताभावेऽपि श्रवणाभावेऽपि भावे ऽस्याः शुश्रूषायाः किमित्याह "शुभभावप्रवृत्तितः" तद्भावस्यैव शुभत्वात् ? " फलं कर्मक्षयाख्यं स्यात् " वचननामाण्येन । एतच परबोधनिबन्धनं प्रधानवोधकारणं, वचनप्रामाण्यादेव ।। योगे ऽक्षेपगुणमाह । शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥ ५५ ॥ शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपो ऽस्यामधिकृतदृष्टी सत्यां कदाचन भवति । उपायकौशलं चापि तथाविधदेशाध्यासनादि चारु शोभनं तद्विषयं शुभयोगसमारम्भविपयं भवेदिति ॥ तथास्यामेव दृष्टावभ्युच्च यमाह । परिष्कारगतः प्रायो विधातोऽपि न विद्यते । अविघातश्च सावधपरिहारान्महोदयः ॥ ५६ ॥ परिष्कारगत उपकरणात इत्यर्थः। प्रायो वाहुल्येन । विधातो ऽपोच्छाप्रतिबन्धो न विद्यत अस्पो सत्यामिति । अविधातय किंभूतो भवतीत्याह "सावयपरिहारात् " प्रतिषिद्वपरिहारेण "महोदयः" अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥ उक्ता बला । सांगतं दीप्रामाह । ? 8 शुभभावत्वात् २ C स्यात्कदाचन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy