SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धाः । १०१ धारावीशधरामहीशगणने ० - प्रकाशः ] ( अयं श्लोकः पूर्वं ( ७० ) संपूर्णः प्रदत्तः ) * इत्यादि भोजस्य नानाविधाः प्रबन्धा अवशेषा यथाश्रुतं मन्तव्याः ॥ cd b पुस्तकेषु प्रान्तभागे लिखितानि मुद्रितपुस्तके च टिप्पण्यां प्रदतानि काव्यानि यथा ( सर्वाण्येतानि श्रीबल्लालविरचितभोजप्रबन्धे सन्ति ) - धाराधरस्त्वदरेिव नरेन्द्र चित्रं वर्षन्ति वैरिवनिता जनलोचनानि । कोशेन सन्ततमसंगतिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थिवानाम् ॥ १ ॥ कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्ता-मादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः । दिङ्मातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः सर्वे स्वैरं चरन्तु त्वाये वहति विभो भोज देवीं धरित्रीम् ॥ २ ॥ अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यास्मात्सु पिहितवती दीनवदना । मयि क्षीणोपाये यदकृत दृशावश्रुबहुले तदन्तः शल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥ ३ ॥ आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो घर्मादिताश्छायया । स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्ततः त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ ४ ॥ · हठादाकृष्टानां कतिपयपदानां रचयिता जनः स्पर्द्धालुश्चेदहह कविना वश्यवचसा । भवेद्य श्वो वा किमिह बहुना पापिनि कलौ घटानां निर्मातुस्त्रिभुवन विधातुश्च कलहः ॥ ५ ॥ मुक्ताभूषणमिन्दुबिम्बमजनि, व्याकीर्णतारं नभः स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते । व्यालीनं कलकण्ठमन्दरणितं मन्दानिलैः स्पन्दितं निष्पन्दस्तबका च चम्पकलता साभून्न जाने ततः ॥ ६ ॥ ११ ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy