SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] भोजभीमप्रबन्धाः । भौमो भवतीति । अथ तैः सम्यगवगम्योच्चराशिषु केन्द्रस्थेषु सौम्यग्रहेषु त्रिषडायगेषु क्रूरेषु चामुकलने जातः सुतः सार्वभौमो भवतीत्युक्तं तन्निशम्ये निश्चितप्रसवदिनादूर्ध्वं षोडशप्रहारान्यावद्योगयुक्त्या गर्भस्तम्भं कृत्वा नैमित्तिकनिर्णीते लग्ने सुतं कर्णनामानं प्रासूतं । तद्गर्भधारणदोषादष्टमे या सा विपन्न | सुलग्नजातत्वात्पराक्रमाक्रान्तदिग्चक्रः षट्त्रिंशदधिकेन राज्ञां शतेन सेव्यमानश्चतुसृषु राजविद्यासु परं प्राविण्यमावहन् विद्यापतिप्रमुखैर्महाकविभिः ः स्तूयमानः । तद्यथा ९४) * मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली' सतिलकमभूत्पाणियुगलम् । अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना ॥ १ ॥ ९५) गोपीपीनपयोधराहतमुरः सन्त्यज्य लक्ष्मीपतेः शङ्के पङ्कजशङ्कया नयनयोर्विश्राम्यति श्रीस्तव । श्रीमत्कर्णनरेन्द्र यत्र चलति भ्रूवल्लरीपल्लव स्तत्र त्रुट्यति भीतिभङ्गुरतया दारिद्यमुद्रा यतः ॥ २ ॥ इति स्तूयमानः स कर्णनृपः कदाचिदूतमुखेन श्रीभोजमुवाच । भवनगर्यां भवत्कारिताश्चतुरुत्तरं शतं प्रासादाः । एतावन्त एव गीतप्रबन्धा भवदीयाः । एतावन्ति तव बिरुदानि । अतश्चतुरङ्गयुद्धेन द्वन्द्वयुद्धेन वा चत सृषु विद्यासु वादशक्त्या त्यागशक्त्या वा मां निर्जित्य पञ्चोत्तरशतबिरुदानां Jain Education International ७७ B १ इति निशम्य D २ सुतमसुत H ३ संयमिनीं पुरीं जगाम DH ४ कुन्तलकलापेन C भृंगविभ्रमकारिणा कुन्तलकलापेन सेव्यमानविमलक्रमकमलयुगल: BH * पद्यमिदं शार्ङ्गधर पद्धत्यां ( १२६२ ) कस्यापीति प्रदत्तम् ५ पत्रालिः d ६ स्तूयमाननानावदातः श्रीभोजं प्रधानानि प्राहिणोत BLH ( अतोऽग्रिमवृत्तान्तः B आदर्श नास्ति ) ७ वादिवत् a P वादस्थळेन त्यागेन च HI For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy