SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] भोजभीमप्रबन्धाः। 8 . ५६) अभ्युद्धता वसुमती दलितं रिपूरः क्रोडीकृता वलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥* काव्यमिदं निर्वर्ण्य पारितोषिके तस्याः पट्टिकायाः काञ्चनकलशं ददौ नृपः । तस्मात्प्रासादादपसरंस्तदीयद्वारखत्तके रत्या सह हस्ततालदानपरं स्मरं मूर्तिमन्तमालोक्य नृपेण हासहेतुं पृष्टः पण्डितः प्राह५७) स एव भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ १ ॥ २३)५८) अन्नदिणे सिवभवणे दुवारदेसे निए वि भङ्गिगणं । किं दुब्बलो पलोइअ निवपुट्ठो भणइ धणपालो ॥ २॥ ५९) दिवासा यदि तत्किमस्य धनुषा तच्चेत्कृतं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं पुनर्दृष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरापिनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥ ३ ॥ ६०) पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यस्मिन्मस्मावशेषोऽपि ॥ ४ ॥ * पद्यमिदं भोजप्रबन्धे ( २१६) प्यस्ति १ हास्य cd * प्रभावकचरिते महेन्द्ररिप्रबन्धे ( १६२ ) तथा च हैमकाव्यानुशासने टीकायां विद्यते पद्यमिदम् २ सुभाषितावल्यां (२३९९) पद्यामिदं वर्तते प्रभावकचरिते च श्रीमहेन्द्रसुरिप्रबन्धे (१०) ३ गोवर्द्धनसप्तशत्यामिदम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy