SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ प्रबन्धचिन्तामणिः | इत्यादीनि वाक्यानि पठन्स धनपालः ॥ २० कदाचिन्नृपेण सह मृगयां नीतो धनपालोऽभिहितः - ४९) *किं कारणं नु धनपाले मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । देव त्वदस्त्रच किताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥ राज्ञा बाणेन मृगे विद्धे सति तद्वर्णनाय विलोकितमुखो धन पालः प्राह ५०) रसातलं यातु तवात्र पौरुषं कुनीतिरेषा शरण दोषवान् । निहन्यते यलिनापि दुर्बलो ह हा महाकष्टमराजकं जगत् ॥ इति तन्निर्भर्त्सनात्क्रुद्धो नृपः किमेतदित्यभिदधाने— ५१) वैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ॥ [द्वितीयः इत्यूचेऽतोऽद्भुत संजातकृपेण नृपेण धनुर्बाणभङ्गमङ्गीकृत्याजीवितान्तं संन्यस्तमृगयाव्यसनेन पुरं प्रत्यागच्छता तत्र यज्ञमण्डपे यज्ञस्तम्भनिय - न्त्रितच्छागस्य दीनां गिरमाकर्ण्य किं पशुरसौ व्याहरतीत्यादिष्टः स धनपालोऽवैधेहीति प्राह * वाग्भटरचिते काव्यानुशासने ( पृ ११ ) प्युदाहतं पद्यमिदम् १ कविराज be H २ शरणागतः ३ अत्र धनपालः - रसातलमित्यादि० तन्निर्भर्त्सनात्क्रुद्धो नृपः किमेतदित्यभिदधानः वैरिणोपि - ० ० ४ वैरिणापि P ५ धनपालः प्राह B 19 + पद्यमिदं प्रभावकचरिते महेन्द्रसूरिप्रबन्धे (१५० ) प्यस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy