SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] ""भोजभीमप्रबन्धाः ** ५१ १६ कदाचिच्चन्द्रातपे उपविष्टः श्रीभोजः संनिहिते कुलचन्द्रे पूर्णच न्द्रमण्डलमवलोकमान इदमपाठीत् ३५) येषां वल्लभया सह क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव संतापकृत् । इत्यर्धकविना तेनोक्ते कुलचन्द्रः प्राह अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनामिन्दु राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥ इति तदुक्तेरनन्तरमेवैकां वैराङ्गनां प्रसादीचकार ॥ १७ अथ डामरनामा सान्धिविग्रहिको मालवमण्डलादायातः श्रीभो - जस्य सभां वर्णयन्महान्तमायल्लेकं जनयति । तत्र गतश्च श्री भीमस्यामात्रां रूपपात्रतां वर्णयंस्तद्दिदृक्षातरलितः श्रीभोजस्त मिहानय तत्र वा मां नयेत्यभ्यर्थ्यमानः सभादर्शनोत्कण्ठितेन भीमेन तथैवाच्यमानश्च कस्मिन्नपि वर्षे उपायविन्महदुपायनमादाय विप्रवेषधारिणं ताम्बूलकरडकवाहिनं श्रीभीमं स गृहीत्वा सदसि गतः प्रणमन् श्रीभोजेन श्रीभीमानयनवृत्तान्तं व्याहृतः स विज्ञपयांचक्रे । स्वतन्त्राः स्वामिनोऽनभिमतं कार्यं केन बलात्कार्यन्ते इति सर्वथेयं कदाशा देवेन नावधारणीया इत्यभिहिते, श्री भीमस्य वयोवर्णाकृतीनां सादृश्यं पृच्छश्रीभोजस्तान्सभासदो लोकानवलोकयन्स्थगीधरं लक्षीकृत्य डामरेणेत्यभिदधे - स्वामिन् . ३६) इमाकृतिरयं वर्ण इदं रूपमिदं वयः । अन्तरं चास्य भूपस्य काचचिन्तामणेरिव ॥ + पद्यमिदं शार्ङ्गधरपद्धत्यां (४१०६) भोजराजचोरकविकृतमिति वर्तते १ इत्यर्थं P २ वारांगनां H ३ आश्चर्य ४ अतिमात्रां H ५ सर्व थाप्येके दासा देवेन नावधीरणीयाइत्यभिधाय P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy